________________
विज्ञप्तिलेखसंग्रह
नम्रानेकक्षितिपतिशिरोमौलिरत्नैर्नखानां, संयोगेन प्रभुचरणयोर्जायते सा विभूषा । व्यक्तबीजं नटनरुचितश्चन्द्रकाणां प्रचारैर्यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः॥ ८९॥ नित्याहादैः श्रमणमणिभिस्तत्र सेव्यांहिपद्मस्तेजोराशिः प्रसृमरयशा राजते सूरिसूर्यः । यदूरस्थो विदुरमघवाऽप्याप्नुते तां न शोभां, सूर्यापाये न खलु कमलं पुष्यति खामभिख्याम् ॥ ९० ॥ गत्वा सूर्योदयनपुरतस्तत्र शोणाणुमूर्त्या, भक्तिं चन्द्रोदयरचनया व्यञ्जयन्नस्य सूरेः । दर्श दर्श वदनमलसां मोदपूर्णा पुनीथाः, खद्योताली विलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ ९१ ॥ यस्य ब्रह्मव्रतमविरतं बिभ्रतश्चित्तवृत्तिं, शच्यास्तस्या अपि मधुरता नेतुमीशा न मोहम् । पीनोरोजा सरसिजमुखी क्षाममध्याऽऽयताक्षी, या तत्र स्याद् युवतीविषये सृष्टिराद्यैव धातुः ॥ ९२ ॥ प्राप्तक्षोभा विजयिनि गुरौ देवनानीह पूर्व, मोहादीनामसमपरिषच्छङ्कया शङ्खकल्पा। साम्राज्येऽस्य प्रशमपवनैर्वेपमानां भयात् तां, जातां मन्ये तुहि मथितां पद्मिनी वान्यरूपाम् ॥ ९३ ॥ खामिन्यस्मिन्नधिगतवति प्राज्यसाम्राज्यलक्ष्मी, कीर्तिक्षीरैर्जगति बहुलैः प्लावितं पङ्कजालम् । तस्या लेपादिव खलमुखं श्यामिका व्याप्तिदम्भादिन्दोर्दैन्यं त्वदनु सरणक्लिष्टकान्तेर्बिभर्ति ॥ ९४ ॥ [ अत्रान्तरे गच्छपतिचरितं किंचिदुच्यते -] __जम्बूद्वीपे भरतवसुधामण्डनं कच्छदेशो, यत्राम्भोधिर्भुवमनुकलं पूजयत्येव रत्नैः । पृच्छन् पूता जननललनैः सूरिणा यैरमूनि, कच्चिद्भर्तुः स्मरसि रसिके ! त्वं हि तस्य प्रियेति ॥ ९५ ॥ चिन्तामण्याह्वयजिनयशो गातुकामेावाटे, शालेये वा जनयति भृशं गोपिका सिद्धमोहम् । वीणापाणिर्लयमुपगता तद्गुणैर्यत्र रागाद्, भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ ९६ ॥ आस्ते तस्मिन्नगरमुदितं श्रीमनोरम्यनाम, योगे दूरादुपगतवतां यत्र सांयात्रिकाणाम् । लोको रात्रिं नयति लववत् तद्वधूस्तत्र देशे, तामेवोष्णैर्विरहजनितैरश्रुभिर्यापयन्ती ॥ ९७॥ तत्र श्रेष्ठी शिवगुण इति प्रेयसी तस्य भांणी, तद्वेश्मोत्थैर्मणिभरकरैर्लोहिते व्योमभागे । प्रातर्धान्त्या गमयति तमी कोककान्ताशुभोगैस्तामेवोष्णैर्विरहजनितैरश्रुभिर्यापयन्ती ॥ ९८॥ सुप्तान्येद्युः कुसुमतैलिने श्रेष्ठिनः कामिनी सा, स्वप्ने सिंहं त्रिदशमहसापन्नसत्त्वा ददर्श । हर्षोल्लासाद् विकचनयने किञ्चिदाकुश्य निद्राम् , आकाङ्क्षन्ती नयनसलिलोत्पीडरुद्धावकाशाम् ॥ ९९ ॥ पोसौत् सूनुं जयमिव शची द्यौरिवेन्दु समग्रं, भर्तुस्तस्मादतिशयिरसाद् वल्लभत्वं गता सा । गायत्युच्चैईसति रमते मोदते स्मालिवगैः, प्रायेणैतेऽरमणविरहेष्वङ्गनानां विनोदाः ॥१०॥ स्फीतो बालः सुरतरुरिवानुक्रमाद् वैरिसिंहेत्याख्यां बिभ्रद् विजयपंदतो देवसूरेः कदाचित् । वाक्यैर्बुध्वा प्रणयविवशां मातरं प्राह दान्तस्तामुन्निद्रामवनिशयनासन्नवातायनस्थः ॥१०१॥ मातर्यांचे विषयविरतस्त्वनिदेश-व्रताय, मायाजालं विकृतिविरसं कस्य नोद्वेगहेतुः । स्त्री विक्षेप्तुं विरहविकृतां न प्रगल्भाऽपि शक्ता, गैल्लाभोगात् कठिनविषमामेकवेणीं करेण ॥१०२॥ श्रुत्वाऽकस्मादिति सुतवचो विद्युदापातकल्पं, मूर्छाऽतुच्छव्यथनकथनैः सङ्कुचद्विस्मिताक्षी। जाता माताऽवचनविषयाऽसह्यदुःखाभिघातात्, साझेऽहीव स्थलकमलिनी न प्रबुद्धा न सुप्ता ॥ १०३॥
१ पण्डितेन्द्रः मद्रूप इति भावः। २ 'आप्नुते' एतत्स्थाने 'अश्नुते' इति भवेत् । आमोतिर्हि आत्मनेपदी न वर्तते । ३ सौन्दर्यम् । ४ 'शिशिरमथितां' इत्यपि पाठः। ५ हे रसिके ! भूः ! सूरिणा यैः जननललनैः त्वं पूता, भर्तुः अमूनि तानि जननललनानीत्यर्थः, त्वं कञ्चित्स्मरसि? हि यतः त्वं तस्य प्रिया इति पृच्छन् अम्भोधिः यत्र भुवं पूजयतीत्यर्थयोजना। ६ रात्रिम् । ७ पुष्पशव्यायाम्। ८ गर्भिणी। ९ प्रासौत् असूत. 'षु प्रसवैश्वर्ययोः' इत्यस्य लङि रूपम् । १० विजयदेवसूरेरित्यर्थः । ११गलो नाम कण्ठप्रदेशः। 'गण्डाभोगात्' इति पाठान्तरम् ।
Jain Education Intemational
ducation Intermational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org