Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
विज्ञप्तिलेखसंग्रह
आत्मीयगीरखितपूज्यमानसः, तीर्थान्तरीयोत्कटभानमानसः।
अस्तु क्षमालाभगणिः प्रमोदभाक्, श्रीजैनचन्द्रस्य गरिष्ठपर्षदि ॥ ६२॥ इत्यादिकानां प्रयतीकृतात्मनां, मध्ये मुनीनां मृगराजविष्टरे ।
ये संस्थिता भान्ति सुधाकरा इव, पूर्वाचलेऽदो लिखति प्रणम्य तान् ॥ ६३॥ 5 विज्ञप्तिपत्रप्रेषकगणेः स्वकीयवासस्थानादिवर्णनम् ।
अनुल्लंधितमर्यादा वसुराशिसमंचिताः । तिष्ठन्ति श्रावका यत्र ससुखं सागरा इव ॥ ६४॥ महाराजमताख्याताः संप्राप्ताखिलसंपदः । शोभन्ते श्रेष्ठिनो यत्र धनदावोचितक्रियाः ॥६५॥ समागमनमिच्छन्ति वर्षाखिव पयोमुचाम् । श्रीजुषां भवतां यत्र दर्शनं निखिला जनाः॥६६॥ स्तुवन्ति च तन्नगरं यद्गुरुभिरधिष्ठितम् । सभासु मिलिताः सर्वे श्रावका यत्र सादराः॥६७॥ अनेकागमविद्यासु विद्यते वर्णसंकरः । कदाप्यस्ति नरव्यक्तौ यत्र नो वर्णसंकरः ॥ ६८॥ नवाबाबदवानस्य विपक्षिस्खलितौजसः । परदेशं यतो भीति प्रतापो गमयत स्वयम् ॥ ६९॥ श्रीमद्भट्टारकप्रौढशासनाश्रयणकारणात् । संप्राप्तविजयो धीमान् श्रीराजविजयो गणिः ॥ ७० ॥ श्रीमन्मालवरद्रंगादमन्दानन्दकारकात् । कृतानेकजनावासात् तस्मान्नीतिमतः सुखात् ॥७१॥ वाचकरङ्गपद्मेण विनयैश्च परिवृतः । आचारस्थापितप्रज्ञैर्गुर्वादेशानुगामिभिः ॥ ७२ ॥ तथा चात्र चतुर्मास्यां तस्थुषां भवदाज्ञया । वाचयतां षष्ठाङ्गं प्रभाते श्राद्धसंसदि ॥ ७३ ॥ वारयतां खकर्मभ्यः समस्तवस्त्ररंजकान् । मासद्वयं स्थितिं यावत् पुराधीशप्रसादनात् ॥ ७४॥ सप्तदशविधाः पूजा जिनसद्मसु पश्यताम् । इत्यादिविधिना सन्ति धर्मकर्माणि कुर्वताम् ॥ ७५ ॥ भ्राम्यतः सर्वदेशेषु स्वाज्ञा दृढयितुं प्रभोः । जिनधर्ममहीभर्तुः सदष्टाहिकमंत्रिणः ॥ ७६ ॥ अमुत्रागमनात् पूर्वमस्माकमपि दर्शनम् । श्रावकाणां च प्रत्यक्षमभूत् पातकभर्त्सनम् ॥ ७७॥ तदोभौ जीवराजोरुदीपचंद्रौ सहोदपौ(रौ)। तेषु संधामकुर्वीतां तदीयागमनोत्सवे ॥ ७८ ॥ तावत्तत्र चतुर्दश्या दीपोत्सवक्षणे गृहे । अनयतां धनैर्युक्ते कल्पसूत्र महामहैः ॥ ७९ ॥ ततः सिंहासने वृद्ध उच्चैरास्थाय साधु तत् । सधवस्त्रीमुखाम्भोजसंभवैर्गीतनिखनैः ॥ ८॥ सर्वनागरलोकोत्थहृदयोत्साहवर्द्धकम् । अनुष्ठाप्य च सद्भावादुदारं रात्रिजागरम् ॥ ८१॥-युग्मम् । एतत्क्षेत्रातिथिभूते सहस्ररश्मिमण्डले । मिलिताबालगोपालं गीततानपुरःसरम् ॥ ८२॥ कुडमागछटाभ्यक्तधनीशकायमण्डनम् । नदन्नशेषवादित्रं लीलालसितकेतनम् ॥ ८३॥ श्रीमत्सदरसाहोग्रहेषमानतुरङ्गमम् । अनेन विधिनोत्साहं रचयतोः प्रयत्नतः (१)॥ ८४ ॥ श्रीमदनूपराजस्य स्कंध आरुह्य हस्तिनः । सूत्रप्राभृतसंयुक्तस्थालान्वितकरद्वयः ॥ ८५ ॥ अमूढोऽनूढसद्वालस्तयोस्तस्याक्षिगोचरम् । अस्मद्धस्तार्पणद्वारा कृतवान् सूत्रप्राभृतम् ॥ ८६॥
(-पंचभिः संबन्धः ।) श्रावकाग्रे ततोऽस्माभिः संपर्यैक्षि तदद्भुतम् । वाचनाभिः सदानाभिर्नवभिर्वाचनोपधे ॥ ८७॥ उपप्रदा विधिः कश्चिदथो तदनुयायिनाम् । अत्रत्योऽपि विशेषेण प्रभूणां विनिवेद्यते ॥ ८८॥ आषाढस्य चतुर्दश्यां शुक्लायां व्रतधारिणाम् । धारादेश्राद्धयानल्पैः सुभक्तिर्मोदकैः कृता ॥ ८९ ॥ भाद्रादिमचतुर्दश्यौपवासकविधायिनाम् । सदकरोजनान् सर्वान् श्रीफलैः श्राद्धखीमसी ॥९० ॥ वीकपुरनिवासेन नयनात् सिंहमंत्रिणा । सन्मानितास्तथा तैश्च सांवत्सरोपवासिनः ॥ ९१॥
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238