Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 129
________________ 15 10 45 20 25 १०८ विज्ञप्तिलेखसंग्रह दिक्संख्यांस्तान् वैभवाद् दिक्पतींश्च कर्मेभानां सूदने सिंहसिंहान् । हित्वा हित्वा वैमतं मानसे च, लेखं चेमं वार्षिकं प्रोलिखामि ॥ १३ ॥ [ अथ देशवर्णनम् - ] आधारोऽग्रयो ग्राहजीवादिकानां नानारत्नोयोतिरत्नाकरोऽस्ति । भाण्डाखण्डाडम्बरैर्मण्डितोऽब्धिर्यस्मिन् देशे चारुदेशे सुवेशे ॥ १४ ॥ चलत्तरङ्गायतवल्गुपाणिभिर्दिशन् महीजाय च यत्र वारिधिः । वरेण्यपण्यैर्भृतपोतपेटकं, विभाति मन्ये करदो निरन्तरम् ॥ १५ ॥ जगत्सुखास्था बहुसस्यसंपदः, अकाल संपक्त्रिमदत्रिमर्द्धयः । अकृष्टपच्याः खलु यत्र नीवृति, सदैव रोहन्तितरां रुहा इव ॥ १६ ॥ विमलविमल भूधः पापतापापहारी, गिरिरिह गिरिनारः सिद्धिसौख्यौघकारी । अजितभगवदाप्तेर्वित्ततारंगकं च, जनपद इह यस्मिन् पावनी च त्रयीयम् ॥ १७ ॥ पुरं सेन्दिरं बिंदरं सूरताख्यं, श्रियाः स्तंभतीर्थं तथा स्तंभतीर्थम् । लसत् संमदाऽहम्मदावादसंज्ञं, पुरस्य त्रयीव त्रयी यत्र वित्ता ॥ १८ ॥ [ अथ यत्र पूज्याः स्थितास्तत्पुरवर्णनम् - ] पुरोप त्रये नायको नायको यः, शुभं यत्र बाभाति मुक्ताकलापे । सदास्यानुभावाद् भवेन्नायको ना, समृद्ध्या सुवृद्ध्या च कीर्त्या सुकान्त्या ॥ १९ ॥ प्रासादानां शितिमणिमयाः सगवाक्षाश्च यत्र, चन्द्रास्याभी रुचिररुचिभिः सेव्यमाना नरीभिः । बोभूयन्ते हिमकरसुखाश्चन्द्रवन्तो दिवापि, तद्गुण्यानां भवति नियतं तद्गुणः संगमाद्धि ॥ २० ॥ सभ्येभ्यानां भृशतरलसच्छर्म्म हर्म्याणि यत्र, चन्द्रज्योतिर्निचयधवलं व्याप्य खं संस्थितानि । आजिष्णूनि प्रचलविलुलच्चन्द्रशालायुतानि, प्रांशुत्वेन विदिह विवदन्ते मिथस्तानि तेन ॥ २१ ॥ श्रियः कन्दरा सुन्दरा सुन्दरी च, सुदत्यच्छरूपा पिकालापरूपा । स्फुरद्भारतीकाऽकठोरप्रतीका, वरीवृत्यते निर्जरीवान्वगारम् ॥ २२ ॥ सकमलं कमलं मलहानिकृत्, सकमला कमलायतलोचना । निजगृहे जगृहे शुचितां जनस्त्रयमिदं पुरि यत्र च वर्तते ॥ २३ ॥ अविरलः सरलो विरलः पुनः, कलिकुठः प्रियको वरुणो जनः । शुचिरशोक उतास्ति पुरे वने, सुरतरुप्रतिमो जन इष्टदे ॥ २४ ॥ सयौवनं यौवनं भाति यत्र, सदानं सदानन्दितखान्तवृत्ति । कणहंसकं हंसकण्ठेष्टशब्द, रसाभाससाभासनं यस्य नित्यम् ॥ २५ ॥ [ अथ तत्र वर्त्तमानानां पूज्यानां वर्णनम् - ] अधिवसति तमुच्चैर्द्रङ्गमुद्यत्सरङ्गमविरलमिलदाभा निर्जितस्वर्गलोकम् । गणपतिरिव कुर्वन् गौतमर्षिर्विहारं, खपरबहुलशास्त्रोदन्वतः पारदृश्वा ॥ २६ ॥ जनश्रुतिर्या भवदीप्सिता पुरा, श्रुता श्रुतिः सेवपदं यथा स्थिता । तूर्णं त्वयि प्रापुषि हि प्रभूणां, लोकोक्तिरेषा न मृषा कदाचित् ॥ २७ ॥ गुणाः समे सात्त्विकराजसादयो, बभूवुरुवतल के वरा गुरौ । भवन्ति गुण्ये त्वयि ते गुणास्तथा, निदानयोग्यं भुवि कार्यमस्ति हि ॥ २८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238