Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai

View full book text
Previous | Next

Page 117
________________ 10 13 20 ९६ 25 30 विज्ञप्तिलेखसंग्रह फुल्लाम्भोजश्वसितमसितिश्मश्रुकूचाङ्कुरौघमा बिभ्राणं सितमुखपटीं चाननाम्भोजहंसीम् । हस्ताम्भोजे दधतममलां वैद्रुमीमक्षमालां, रागं प्राप्तामिव गुरुगुणैघूर्णमानां च चित्रैः ॥ १११ ॥ अङ्के धर्मध्वजमुरुमहः शोभमानं दधानं, श्रेयोलक्ष्म्या प्रहितमिव सस्नेहया पुण्डरीकम् । प्रायः पद्मासनपरिचितं राजहंसोपसेव्यं, स्वाध्यायेनानुगतवदनं ब्रह्मसब्रह्मरूपम् ॥ ११२ ॥ कर्णोपान्ते पलितकपटात सुष्ठु विज्ञप्यमानं, स्थानभ्रंशव्यथित जर सैकान्तमेकान्तकान्तम् । स्वामिंल्लोकानजरममरं स्थानकं प्राप्तुमहान् कुर्वन् भूमौ विहरसि मया स्थीयतां क्वाधुनेति ॥ ११३ ॥ स्फूर्जद्भाग्यान् कतिचन दृशा स्निग्धयाऽऽलोकयन्तं, कांश्चिचेषत्स्मितकलनया स्वायतीन् प्रीणयन्तुम् । पूर्वोपात्तास्खलितसुकृतश्रेणिसौभाग्यभाजः कांश्चिन्मौलौ करघटनया लब्धसिद्धीन् सृजन्तम् ॥ ११४ ॥ आशीर्दम्भान्नमदसुमतां हस्तविस्तारणेन हस्तन्यस्ताविव निजवशौ धर्मलाभौ ददानम् । कल्याणानां निधिमिव महापारवारं महिनामाचाराणां भवनमवनावाकरं सत्क्रियाणाम् ॥ ११५ ॥ अर्हद्धर्मं तनुभृतमिवास्तोकलोकोपकृत्यै, कैवल्यं वा विदितभुवनं पुंस्वरूपोपपन्नम् । प्रत्यक्षं वा सुकृतनिचयं शासनस्यार्हतस्य मूलं निःश्रेयसपदतरोर्जङ्गमं कल्पवृक्षम् ॥ ११६ ॥ कष्टातं नतसुमनसां जापमौनप्रयुक्तैर्मन्तं मन्त्रैरिव पटुतरैर्हारिहुङ्कारनादैः । सम्यग्नामस्मरणशमिताशेषपापोपतापं, लक्षोष्णांशुप्रतिभटजगद्व्यापितेजः प्रतापम् ॥ ११७ ॥ धैर्येणातिप्रथितयशसा स्वर्णशैलं जयन्तं, गाम्भीर्येणातिशयगुरुणाम्भोनिधिं लज्जयन्तम् । सौन्दर्येणाप्रतिममहसा मन्मथं तर्जयन्तं, चारित्राद्यैः सुविहितगुणैर्विश्वमावर्जयन्तम् ॥ ११८ ॥ मौनध्यानाद्यमलविधिनाराधिताचार्यमत्रं, सेव्यं देवैरुपपदगतैर्ब्रह्मचर्यानुरक्तैः । नम्रप्राणिप्रकरविविधप्रार्थनाकामकुम्भं, दान्तं शान्तं मृदुमपमदं निःस्पृहं वीतदम्भम् ॥ ११९ ॥ विद्यावद्भिः सुभगतनुभिश्चारुचारित्रवर्यैः, श्रीगुर्वाज्ञा विनयनिपुणैः सेवितं साधुवर्यैः । श्रद्धालूनां पृथुपरिषदि प्रौढधाम्ना निषण्णं, त्रायस्त्रिंशैरिव परिगतं संसदीन्द्रं सुराणाम् ॥ १२० ॥ वन्देथाः श्रीतपगणपतिं सार्वमैदंयुगीनं, पीतं पुण्यप्रभवमुदधेर्नन्दनत्वं लभेथाः । प्राच्यैः पुण्यैः फलितमतुलैस्तावकीनैः सुलब्धजन्मैतत् ते नभसि च गतिर्भाविनी ते कृतार्था ॥ १२१ ॥ ( - चतुर्दशभिः कुलकम् । ) अद्यानर्थैर्गलितमकलैः पापपत्रैर्विलीनं, क्षीणं दोषैर्विगलितमशिवैर्दुष्टकष्टैः प्रणष्टम् । रुग्णं रोगैर्मृतमनुशयैर्विप्रयोगैर्विनष्टं, सर्वातङ्कोपशमनिपुणं द्रक्ष्यसि श्रीगुरुं यत् ॥ १२२ ॥ पुण्यादस्माद् भृशमुपचितात् किंवदन्तीकलङ्कस्यैषा यास्यत्यमृतकर ! भो निष्कलङ्कं भवन्तम् । मन्येऽवश्यं शतगुणघृणं सत्वरं वीक्षिताहे, सर्वाभीष्टं फलति न चिराद् दर्शनं हीदृशानाम् ॥ १२३ ॥ हृद्यातोद्यैर्मुखरमुरजैर्गायनानां च गीतैर्गायन्तीनां गुरुगुणगुणांश्चारखैः श्राविकाणाम् । स्वाध्यायैश्च श्रमणकृतिनां तर्कचर्चाविचारैः शब्दाद्वैते भवति भवता स्थेयमानम्य तत्र ॥ १२४ ॥ [ तपागच्छाधीशाग्रे विज्ञपनीयवक्तव्यसूचनम् - ] Jain Education International विज्ञप्तिर्भो ! यदपि भवता दुष्करा नाप्तपुंसा, पार्श्वे किं चामरहिमकराः पाठकास्ते सगोत्राः । संवीक्ष्यैवावसरमुचितं तत्र वाच्यं तथापि, नेतारो हि ध्रुवमवसरप्रेक्षिणि प्रीतचित्ताः ॥ १२५ ॥ स्थित्वा तस्माद् विजनसमये श्रीगुरोः पादपद्मं स्पृष्ट्वा स्वच्छैर्हिमकरकरैर्विज्ञ ! विज्ञप्यमेवम् । शिष्योऽणीयान् विनयविजयो द्वादशावर्तभाजा, विज्ञप्तिं व्याहरति महता वन्दनेनाभिवन्द्य ॥ १२६ ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238