________________
10
13
20
९६
25
30
विज्ञप्तिलेखसंग्रह
फुल्लाम्भोजश्वसितमसितिश्मश्रुकूचाङ्कुरौघमा बिभ्राणं सितमुखपटीं चाननाम्भोजहंसीम् । हस्ताम्भोजे दधतममलां वैद्रुमीमक्षमालां, रागं प्राप्तामिव गुरुगुणैघूर्णमानां च चित्रैः ॥ १११ ॥ अङ्के धर्मध्वजमुरुमहः शोभमानं दधानं, श्रेयोलक्ष्म्या प्रहितमिव सस्नेहया पुण्डरीकम् । प्रायः पद्मासनपरिचितं राजहंसोपसेव्यं, स्वाध्यायेनानुगतवदनं ब्रह्मसब्रह्मरूपम् ॥ ११२ ॥ कर्णोपान्ते पलितकपटात सुष्ठु विज्ञप्यमानं, स्थानभ्रंशव्यथित जर सैकान्तमेकान्तकान्तम् । स्वामिंल्लोकानजरममरं स्थानकं प्राप्तुमहान् कुर्वन् भूमौ विहरसि मया स्थीयतां क्वाधुनेति ॥ ११३ ॥ स्फूर्जद्भाग्यान् कतिचन दृशा स्निग्धयाऽऽलोकयन्तं, कांश्चिचेषत्स्मितकलनया स्वायतीन् प्रीणयन्तुम् । पूर्वोपात्तास्खलितसुकृतश्रेणिसौभाग्यभाजः कांश्चिन्मौलौ करघटनया लब्धसिद्धीन् सृजन्तम् ॥ ११४ ॥ आशीर्दम्भान्नमदसुमतां हस्तविस्तारणेन हस्तन्यस्ताविव निजवशौ धर्मलाभौ ददानम् । कल्याणानां निधिमिव महापारवारं महिनामाचाराणां भवनमवनावाकरं सत्क्रियाणाम् ॥ ११५ ॥ अर्हद्धर्मं तनुभृतमिवास्तोकलोकोपकृत्यै, कैवल्यं वा विदितभुवनं पुंस्वरूपोपपन्नम् । प्रत्यक्षं वा सुकृतनिचयं शासनस्यार्हतस्य मूलं निःश्रेयसपदतरोर्जङ्गमं कल्पवृक्षम् ॥ ११६ ॥ कष्टातं नतसुमनसां जापमौनप्रयुक्तैर्मन्तं मन्त्रैरिव पटुतरैर्हारिहुङ्कारनादैः । सम्यग्नामस्मरणशमिताशेषपापोपतापं, लक्षोष्णांशुप्रतिभटजगद्व्यापितेजः प्रतापम् ॥ ११७ ॥ धैर्येणातिप्रथितयशसा स्वर्णशैलं जयन्तं, गाम्भीर्येणातिशयगुरुणाम्भोनिधिं लज्जयन्तम् । सौन्दर्येणाप्रतिममहसा मन्मथं तर्जयन्तं, चारित्राद्यैः सुविहितगुणैर्विश्वमावर्जयन्तम् ॥ ११८ ॥ मौनध्यानाद्यमलविधिनाराधिताचार्यमत्रं, सेव्यं देवैरुपपदगतैर्ब्रह्मचर्यानुरक्तैः । नम्रप्राणिप्रकरविविधप्रार्थनाकामकुम्भं, दान्तं शान्तं मृदुमपमदं निःस्पृहं वीतदम्भम् ॥ ११९ ॥ विद्यावद्भिः सुभगतनुभिश्चारुचारित्रवर्यैः, श्रीगुर्वाज्ञा विनयनिपुणैः सेवितं साधुवर्यैः । श्रद्धालूनां पृथुपरिषदि प्रौढधाम्ना निषण्णं, त्रायस्त्रिंशैरिव परिगतं संसदीन्द्रं सुराणाम् ॥ १२० ॥ वन्देथाः श्रीतपगणपतिं सार्वमैदंयुगीनं, पीतं पुण्यप्रभवमुदधेर्नन्दनत्वं लभेथाः । प्राच्यैः पुण्यैः फलितमतुलैस्तावकीनैः सुलब्धजन्मैतत् ते नभसि च गतिर्भाविनी ते कृतार्था ॥ १२१ ॥ ( - चतुर्दशभिः कुलकम् । )
अद्यानर्थैर्गलितमकलैः पापपत्रैर्विलीनं, क्षीणं दोषैर्विगलितमशिवैर्दुष्टकष्टैः प्रणष्टम् । रुग्णं रोगैर्मृतमनुशयैर्विप्रयोगैर्विनष्टं, सर्वातङ्कोपशमनिपुणं द्रक्ष्यसि श्रीगुरुं यत् ॥ १२२ ॥ पुण्यादस्माद् भृशमुपचितात् किंवदन्तीकलङ्कस्यैषा यास्यत्यमृतकर ! भो निष्कलङ्कं भवन्तम् । मन्येऽवश्यं शतगुणघृणं सत्वरं वीक्षिताहे, सर्वाभीष्टं फलति न चिराद् दर्शनं हीदृशानाम् ॥ १२३ ॥ हृद्यातोद्यैर्मुखरमुरजैर्गायनानां च गीतैर्गायन्तीनां गुरुगुणगुणांश्चारखैः श्राविकाणाम् । स्वाध्यायैश्च श्रमणकृतिनां तर्कचर्चाविचारैः शब्दाद्वैते भवति भवता स्थेयमानम्य तत्र ॥ १२४ ॥ [ तपागच्छाधीशाग्रे विज्ञपनीयवक्तव्यसूचनम् - ]
Jain Education International
विज्ञप्तिर्भो ! यदपि भवता दुष्करा नाप्तपुंसा, पार्श्वे किं चामरहिमकराः पाठकास्ते सगोत्राः । संवीक्ष्यैवावसरमुचितं तत्र वाच्यं तथापि, नेतारो हि ध्रुवमवसरप्रेक्षिणि प्रीतचित्ताः ॥ १२५ ॥ स्थित्वा तस्माद् विजनसमये श्रीगुरोः पादपद्मं स्पृष्ट्वा स्वच्छैर्हिमकरकरैर्विज्ञ ! विज्ञप्यमेवम् । शिष्योऽणीयान् विनयविजयो द्वादशावर्तभाजा, विज्ञप्तिं व्याहरति महता वन्दनेनाभिवन्द्य ॥ १२६ ॥
For Private & Personal Use Only
www.jainelibrary.org