________________
इन्दुदूताभिधानं विज्ञप्तिपत्रम्
यच्छ्रीपूज्यक्रमयुगमिलादुर्गमध्ये नतोऽहं, प्रागासं नोपकृतिमिव तद् विस्मरामि क्षणार्धम् । श्रीतातानां तदुरुकृपया भाषणं स्मर्यमाणं, सर्वाङ्गीणं सपदि पुलकोद्भेदमाविष्करोति ॥ १२७ ॥ तुष्यत्युल्लासयति करणान्युल्लसन्त्येव भूयो, भूयो गच्छत्युपगुरुपदं गाढमुत्कण्ठते च । बाष्पक्लिन्ने सृजति नयने गद्गदान् कण्ठनादानेतचेतः प्रणयरसतश्चेष्टते नैकधा ते ॥ १२८॥ निद्रादोषो जगति विदितो जागरश्चाप्रमादः, संप्रत्येतन् मम तु हृदये वैपरीत्येन भाति । निद्रां जाने गुणमनुगुणं दर्शनं वो ददानां, जागर्यां च प्रगुणमगुणं तत्र विघ्नं सृजन्तीम् ॥ १२९॥ जागर्यायां जपति रसना युष्मदाख्यां यथा मे, निद्रायामप्युपहितमनस्त्वेन शश्वत् तथैव । तस्मात् संप्रत्यहनि निशि वा जागरानिद्रयोर्मे, भेदं लोका अपि पटुधियो जानते नापरीक्ष्य ॥१३०॥ शङ्कातकैर्मलिनमगुणैरुत्सृजन् पूर्वपक्षं, सिद्धान्तं सद्विभव ! भवदाराधनं संश्रितोऽस्मि । संभाव्यस्तत्परमगुरुभिः स्निग्धया प्रेमदृष्ट्या, येनात्यर्थं फलितसकलप्रार्थितार्थों भवेयम् ॥ १३१॥ ॥
॥ इति श्रीमेघदूतच्छायाकाव्यमिन्दुदूताभिधं काव्यं समाप्तम् ॥ अथात्र प्रतिप्रत्यूषं मयूष(ख)मालिनि भगवत्युदयगिरिशिरसि माणिक्यकोटीरकलामाकलयति समंततःप्रसृतबालातपघुसृणपङ्कपुञ्जपिञ्जरीभूते भूतले महेभ्यसभ्यायां महासभायां श्रीषष्ठाङ्गसूत्रवृत्तिव्याख्यान-साधुसाध्वीप्रारब्धाध्ययनादिधर्मकर्मकदम्बके ससुखं सिद्धिसौधमध्यमध्यासमाने परिपाट्युपनतमखर्वसर्वपर्वगर्वसर्वस्खापहरणप्रवणं श्रीवार्षिकं पर्वापि सप्तदशभेदश्रीजिनार्चा_रचन-द्वादशदिनजीवाभयदानपटुपटहप्रवर्तन-रङ्गाजीवितिलंतुदमैनिक- 15 कुलालादिकुकर्मनिवर्त्तन-सप्रभावप्रभावनाभवन-सनवनवक्षणनवक्षणश्रीकल्पसूत्रवृत्तिवाचन-मासक्षपणपक्षक्षपणाष्टाहिकाष्टमादिदुस्तपतपस्तपनार्थिसार्थाभ्यर्थितार्थसमर्थन-तुङ्गच्छृङ्गारिततुरङ्गगूढीनिस्साणाद्यनेकवर्यतूर्यनिनादादिप्रचण्डाडम्बरचारुचैत्यपरिपाटीविरचन-साधर्मिकजनक्षामणसांवत्सरप्रतिक्रमणसाधर्मिकवात्सल्यकरणाद्यतुच्छोत्सवच्छटासच्छायें निरपात्य निरमायि । वतेते च कुशलमविकल कामकुम्भकल्पद्रुमचिन्तारत्नाधिकचिन्तातीताथनार्थनासमर्थनचरणश्रीपरमगुरुचरणस्मरणासाधारणकारणतोऽपरं निर्जितदुर्जयदुर्दुरुढोन्मादानां समूलकाषंकषितप्रमादानां विहि- 20 तासन्नसिद्धिकास्तोकलोकाहादानां सदा सुप्रसादानां श्रीपरमगुरुपादानां प्रसादपत्रप्रसादमथैवासादयिष्यति पाकपरमाणुरयमिति स्ववपुःपरिवर्हारोग्याधुदन्तकान्तकर्पूरपूरपूरितकृपापत्रसमुद्गकप्रसादनेन प्रमोदनीयोऽहम् । किं च शिशोस्त्रिसायं प्रणतिरवधार्या, प्रसाद्या च महोपाध्यायश्रीअमरचन्द्रगणीनामन्येषां च यथाहै नत्यनुनती प्रसाद्ये । तथाऽत्रत्य पं० तेजविजयग०-ग० कनकविजय-ग० कान्तिविजय -ग० नेमिविजय -ग. जयविजय-ग० जिनविजय - ग० गुणविजय - ग० सत्यविजय - ग० रत्नविजय - साध्वीराजश्री-साध्वीकर्पूरश्रीप्रभृति चतु- 25 विधस्यापि श्रीसंघस्योपवैणवं प्रणतिरवधार्या । शिशुपरि कृपाप्रणयः स्फातिमानवधार्यः। शिशुचितं कृत्यादि प्रसाद्यमिति श्रेयः ॥ ॥
। इदं मेघदूतच्छायाकाव्यस्वरूपम् इन्दुदूताभिधानं विज्ञप्तिपत्रात्मकं काव्यं निर्णयसागरमुद्रणालयप्रकटितकाव्यमालान्तर्गतचतुर्दशगुच्छके मुद्रितमस्ति, परं तत्रायं गद्यभागो नोपलभ्यते । काव्यमपि यत्र तत्र बह्वशुद्धियुक्तं दृश्यते । अस्माभिरत्र अस्मल्लब्धशुद्धतरप्रत्यन्तराधारेण यथाशक्यं शुद्धीकृतम् ।
वि०म० ले. १३
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org