________________
श्रीमेघविजयोपाध्यायविरचितो [३] मेघदूतसमस्यापूर्तिमयविज्ञप्तिलेखः ।
[सन्देशप्रेषककवेवासस्थानादिनिर्देशः-]
स्वस्तिश्रीमद्भुवनदिनकृद्वीरतीर्थाभिनेतुः, प्राप्यादेशं तपगणपतेमघनामा विनेयः । ज्येष्ठस्थित्यां पुरमनुसरन् नव्यरङ्गं ससर्ज, स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥१॥ तस्यां पुर्यां मुनिगणगुरोविप्रयोगी स योगी, नीत्वा मासान् कतिचिदचिराद् वाचिकं नेतुकामः । भाद्रे पञ्चम्युदयदिवसे मेघमाश्लिष्टसौधं, वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २॥ मत्वा तस्याभ्युदयनदशां वायुनोन्नीयमानां, चेतो वाचं झटिति गमनापेक्षमूचेऽस्य साधोः । प्रत्यासन्नेऽप्ययि ! तव गुरौ कार्यकार्यस्ति योगः, कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥३॥ तद्विज्ञप्त्यै त्वरय रयतः खं पुनानाऽऽशु नानाभावरेवं किमिव मनसोदीर्णवाक्यः स बालः। हस्ताम्भोजद्वयरचनया निर्मितार्चाय तस्मै, प्रीतः प्रीतिप्रमुखवचनं वागतं व्याजहार ॥४॥ कायं प्रायः पवनसलिलज्योतिषां संनिकायः, क्वार्थश्चायं प्रवणकरणैर्यो विधेयः समर्थः । हर्षोत्कर्षादिति स सहसाऽचिन्तयन्नूचिवाँस्तं, कामा" हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५॥ जज्ञे भूमावतिविषमताऽन्योन्यसाम्राज्यदौःस्थ्यात् , कश्चिन्मां नो नयति यतिनामीशितुर्तिवार्ताम् । तत त्वां याचे स्ववशमवशासृष्टविश्वोपकारं, याच्ञा मोघा वरमधिगुणे नाधमे लब्धकामा ॥६॥ भ्रातस्त्रातस्त्वमसि भुवने जीवनं जीवनन्दी, तापव्यापापहृतिनिपुणस्तत्पयोवाह ! रम्या । गम्या चारै रुचिरनगरी देवकात्पत्तनाख्या, बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहा ॥७॥ नित्यं चेतः स्फुरति चरणाम्भोजयोः सूरिराजः, कायः सर्वैः समयविषयैः संनिबद्धान्तरायः । नो चेदीदृग्गुरुसुरतरं प्राप्य कः स्यादवीयाँन् , न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥८॥ श्रेयस्यर्थे प्रभवति बलादन्तरायस्तदस्य, प्रध्वंसायाभ्युचितमचिरादाचिरेयं भजस्व । लाभोऽप्यत्र त्रिदशललनानेत्रसंवीक्षणैस्त्वां, सेविष्यन्ते नयनसुभगं खेभवन्तं बैलाकाः ॥९॥ [ अथ प्राप्तानुपंगं श्रीशान्तिजिनवर्णनम् -]
देवः शान्तिर्भवति भविनां दुर्भवाम्भोधिसेतुर्हेतुर्भूयोऽनुभवभव.. भोगसंयोगलक्ष्म्या । दुष्टैः कष्टैर्व्ययभयमयैः संनियोगेऽङ्गभाजः, सद्यःपाति प्रणयिहृदयं विप्रयोगे रुणद्धि ॥१०॥ अस्याह्वानस्मरणकरणोद्भूतभूयःप्रभावाः, श्रद्धाभाजो विततमुरजस्येव गजं निशम्य । नृत्यारम्भे जिनपतिपुरः सजिगीषोः स्वरुच्या, संपत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥११॥ अर्हत्यस्मिन् सृजति भुवनोद्भासनं दीपरूपे, चेतोवृत्तीर्बहलतमसश्छेदनाय प्रपद्य । स्यात् तत्राभिप्रणतमनुजस्वर्गिवर्गस्य चित्रं, स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १२ ॥ हर्षाद् वर्षाविहितहितकृत्स्नात्रकृत्यः प्रसूवातानीतः प्रणयतु विभोश्चारुचयों सपोम् । कुर्वन्नुवर्ती स्वतनुमतनुं तीर्थभावाश्रितानां, क्षीणः क्षीणः परिलघु पयः श्रोतसां चोपभुज्य ॥ १३ ॥
१ कुशलवार्ताम् । २ सूरिराजस्येत्यर्थः । ३ नो चेत् अर्थात् कायस्य विषयकृतविघ्नशून्यत्वे । ४ अतिदूरवर्ती पलं कालभागविशेष उपलक्षणात् कालः। ५ खेभ आकाशगज ऐरावतस्तद्वान् । ६ वराणि अङ्कानि भूषणानि यासां ताः। ७ अत्रैको गुरुवर्णस्युटितः।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org