________________
मेघदूतसमस्यापूर्तिमयविज्ञप्तिलेख
९
देवस्यास्य प्रसवसमये दिक्कुमारीभिरुच्चैर्गन्धाम्भोदः प्रसृमरसुमाऽऽमोदशाली विचके । पित्रा तत्रार्जितसुकृततो विश्वशीर्षे त्वमेषि, दिग्नागानां पथि परिहरन् स्थूलहस्तावलेपान् ॥ १४ ॥ उद्यद्वालारुणघृणिगणोन्मिश्रशुद्धाश्मगर्भ-च्छत्रेणैतां तनुमनुदिनं भासितामस्य पश्य । मन्दारद्रुप्रभवनिचयैः पथ्यनेपथ्यभाजो, बढेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५ ॥ श्यामीभावं शमयितुमना वामभागे वितत्या, प्रादक्षिण्यं नय गुरुमुरुश्रेयसा देवमेनम् । नृत्यासक्तामरवरवधूवेषवस्त्रायमाणः, किञ्चित् पश्चाद् व्रज लघुगतिर्भूय एवोत्तरेण ॥ १६ ॥ शङ्के राकातुहिनकिरणो वैश्वसेनिस्वरूपाचक्रे पूजास्पदमिह मृगं स्वस्य संवाहकं खे । न क्षुद्रेऽपि प्रथमसुकृतोद्भावजन्मोपकारः, प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७॥ रङ्कुश्चन्द्रं जिनमुखविभामोषसञ्जातदोषं, पादाम्भोजे नखरमिपतोऽभ्यानयत् सप्रसादम् । स्वीयोत्सङ्गे तदिव हरिणो धीयते शीतभासा, सद्भावाः फलति न चिरेणोपकारो महत्सु ॥१८॥ गायन्तीनां जिनवरपुरश्चारुलीलावतीनां, रूपोत्प्रेक्षाविवशमनसि त्वय्यथाग्रं प्रपन्ने । प्राप्तः स्वाहाशनजनमनःकाम्यतां मण्डपोऽपि, मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥१९॥ नानारत्नाभरणकिरणैर्भूषितां यूषितार्यों, जैनीमा तव विनमतः काऽपि कान्तिर्भवित्री । यामालोक्याभिनवनवनैवर्णयिष्यन्ति सिद्धाः, भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ २०॥ तस्याः सात्रे दनुजमनुजैर्गावपावित्र्यहतो, सृष्टे दिष्ट्या प्लुतमविरलं क्षीरमादेयमेव । तन्माहात्म्यात् पवनयवनस्तेऽभिभूत्यै प्रभुन, रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २१॥ लोकाः कुष्ठाद् गलितवपुषो निर्विरोकाः सशोकाः, अर्हत्स्नात्रामृतभरसरःस्नानमात्राः क्षणेन । भूत्वा भाखल्ललिततनवो दिव्यभोगै जन्ति, सोत्कण्ठानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २२ ॥
॥ इति जिनवर्णनम् ॥ नास्मिन्मार्गेऽस्म्यहमयि ! गतस्तच्च यात्रानुवेश्म, गत्वा श्राद्धाः सदयहृदयाः संपदां संप्रदायाः । प्रष्टव्यास्ते गुरुमुखघनान्निर्गलद्वाग्जलानां, सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २३॥ रत्नश्रेणीरचितनिचितस्वर्णसङ्कीर्णसौधेष्वस्यां जालान्तरपरिलसल्लोलनेत्राकलापैः ।। शुक्लापाङ्गैर्मधुरवचनैर्वन्दनां वक्तुकामैः, प्रत्युद्यातः कथमपि भवान् गन्तुमाशु व्यवस्येत् ॥ २४॥ वृष्ट ह्यत्र त्वयि प्रतिगृहं केतकोत्सेधहेतौ, धारायत्रावलय उदितोत्तुङ्गरङ्गत्तरङ्गाः । अन्तर्मजत्सरसिजदृशां वक्रपझैः सपद्माः, संपत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २५ ॥ प्रस्थानार्थं तव सवयसं प्रार्थयखार्थवन्तं, कासारं तं जलजरजसा पीतवासो वसानम् । सिन्ध्वा वध्वा अधरमधुरं यः पिबत्युन्नमय्य, सभ्रूभङ्ग मुखमिव पयो त्रैवल्याश्चलोमि ॥ २६ ॥ स्थित्वा तीरे ध्रवमुपसरश्चञ्चलाचञ्चलाक्षीः. धाराहस्तैः कसममधरां दर्शयेस्तां वनालीम । या प्रायोग्यैः सुरतललितप्रक्रियाणां प्रियाणाम् , उद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २७ ॥ संस्थानेन प्रहितमतुलं वीक्ष्य पक्वान्नवृन्दमुद्यानेऽपि स्वतरुषु चलच्छाखिकानां मिषेण । पुष्पश्रेणी प्रहितुमनसि (?) प्रोन्नतानां समेधि, च्छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २८॥
१ दिवि स्वर्गे उषिताः धूषिता देवास्तैर- पूज्याम् । २ प्रतिमाम् । ३ नवीनस्तवैः । ४ अर्चायाः (प्रतिमायाः)। ५ पवनस्य यवनो वेगः। ६ दशार्णा इवेति लुप्तोपमाऽलङ्कारः, दश ऋणानि जलदुर्गाण्यस्यां दशार्णा नदी। ७ वेत्रवत्या वेत्रवृक्षशालिन्याः सिन्ध्वा इति व्याख्येयम् । ८ उपसरः तडागसमीपे चञ्चलानि विद्युत् तद्वच्चञ्चलानि अक्षीणि यास ताः स्त्रीः इति अण्यन्तकर्तुः कर्म ज्ञेयम् ।
Jain Education Intemational
cation International
For Private & Personal Use Only
www.jainelibrary.org