________________
१००
विज्ञप्तिलेखसंग्रह
अस्यां पुर्या नरपतिनमन्मौलिमालार्चितांहिः, साहेः पुत्रः सुनयनयनः पाति लोकान् पितेव । गीर्वाणस्त्रीसदृशसुदृशां तस्य सौधोर्द्धगामी, लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २९॥ नार्यः पुर्यां प्रतिगृहमिह श्रेणिमापूर्य तूर्यैरुद्दिश्येशं प्रणयरचितं गानमुत्तानयन्ति । श्रुत्वा तास्त्वां रसितमसितैर्मोहयिष्यन्त्यपाङ्गैः, स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ ३०॥ रोदस्योस्त्वां परिचितमिति स्वीयचित्तेऽवधृत्य, सीमन्यस्याः कृषिकरजना बीजराजी वितेनुः । संप्रत्येषाऽङ्कुरमुकुलनैः प्राञ्जलीभूय नम्रा, काश्य येन त्यजति विधिना स त्वयैवोपपाद्यः ॥३१॥ धन्योऽसि त्वं जलदपटले ! दक्षिणस्यां प्रविश्य, दृष्टं येन प्रवरनगरं सारमेतज्जगत्याः । भुक्ते भाग्ये भुवि नु मरुतां देवशैलाद् विधाऽपि, शेषैः पुण्यैहृतमिव दिवः कान्तिमत् खण्डमेकम् ॥ ३२ ॥ अत्राश्लिष्टुं कमलवदना वीचिहस्तैः सरस्यः, प्रोक्ताः कान्ता इव सुवयसां त्वां विजानन्ति शब्दैः । मुक्त्वा नस्त्वं विरह विधुराः कुत्र गन्तासि भोग्योऽसि प्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥३३॥ अस्यां मुक्तामरकतपविश्रीप्रसूनेन्दुरत्नपूगान् दृष्ट्वा तरणिशशिनोः श्रान्तकान्तिस्वरूपान् । पुण्यश्रेणीविपणिगणितान् विद्रुमच्छेदराशीन , संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥३४॥
॥ इत्यवरंगावादवर्णनम् ॥ [ सन्देशवाहकस्य प्रथमप्रयाणभूतदेवगिरेवर्णनम् -]
अस्याः प्राच्या सुभगभगिनी देवगिर्याहयास्ति, पूर्व प्रत्याश्रयमिह चिरं तस्थिवान् रामचन्द्रः । सत्रौ स्नेहादिह जनकजा लक्ष्मणः केलिमाधाद् इत्यागन्तून रमयति जनो यत्र बन्धूनभिज्ञः ॥ ३५ ॥ तस्यां छत्रायितसुरगिरौ वप्रमौलिं दधत्यां, राज्ञस्तूयर्द्विगुणितरवैनर्तयेथा मयूरान् । गेहेपूच्चैः प्रसवनिचयाकीर्णमध्येषु नूनं, नीत्वा खेदं ललितवनितापादरागाङ्कितेषु ॥ ३६॥ एतत्पुर्याः पुरपरिसरादाम्रकम्रातपत्रात् , तत्रासीनो नगरसुषमां मार्गयाद्रौ विनिद्राम् । कासाराणां विकचकमलामोदिभिः सेव्यमान-स्तोयक्रीडानिरतयुवतिस्नानतिक्कैर्मरुद्भिः ॥ ३७॥ स्त्रात्रे श्राद्धस्त्रिभुवनगुरोस्तत्र निर्मीयमाणे, नानारत्नांशुकरचनया भूषिते भूमिभागे । सद्यो वाद्यानुचरचरितैः शब्दयन्नब्दरत्नम् , आमन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ३८॥ पीनोत्तुङ्गस्तनभरनता गात्रसौन्दर्यभाजो, वामाः पुष्पैर्वृषभभगवत्पूजनं कर्तुकामाः । मूर्तेः स्नानादिव समुचितान् प्राप्य वर्षाग्रबिन्दून् आमोक्ष्यन्ते त्वयि मधुकरश्रेणिदीर्घान् कटाक्षान् ॥ ३९॥ आश्लेषार्थं सुहृदिव गिरिः शाखिबाहून् वितत्य, तत्रार्चास्तास्तव विरचयिष्यत्यनर्घ्यप्रसूनैः । गृह्णन् जन्माप्यविरलफलं मानयिष्यत्यमत्त्यः, शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान् यौः ॥ ४० ॥ तारुण्येन स्मरपरवशां शिक्षितानां प्रवृत्ति, रात्रौ स्त्रीणामुपपतिगतौ श्रोणिभारालसानाम् ।
देह्यालम्ब विमलतडिता दर्शयंस्तत्र मार्ग, तोयोत्सर्गस्तनितमुखरो मा स्म भूविक्लवास्ताः ॥४१॥ [ततोऽग्रे स्थितस्य इलोराभिधपर्वतस्य सूचनम् -]
इत्येतस्मान्नगरयुगलाद् वीक्ष्य केलिस्थलं त्वम् , इलोराद्रौ सपदि विनमन् पार्शमीशं त्रिलोक्याः। भ्रातः ! प्रातर्ब्रज जनपदस्त्रीजनैः पीयमानो, मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ४२ ॥ त्वामुद्यान्तं नभसि सहसाऽवेक्ष्य कान्ता वियुक्तास्त्रासव्यासं दधति सरसों पार्श्वमस्माजहीहि । रात्रौ म्लाना इह कमलिनीर्मोटितुं भानुमाली, प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः॥४३॥
१ असि, प्राऽव, अतः इति च्छेदः। त्वं भोग्योऽसि, अतः प्राव रक्षेत्यर्थः। २ अपो ददातीति अब्दो मेघः। ३ याः अर्चाः पूजाः (कर्म) भवान् अमत्र्यैः देवैः (करणैः) मानयिष्यति। ४ "धर्मस्थानाद्गुरुगुणकथावश्यकान्तोत्थितानाम्" इति वा पाठः। ५ विकासयितुम् , भानुमाली= सूर्यः।
Jain Education Intemational
For Private & Personal Use Only
ation Intemational
www.jainelibrary.org
For Private & Personal Use Only