________________
मेघदूतसमस्यापूर्तिमयविज्ञप्तिलेख
१०१ मार्गे यान्तं बहुलसलिलैर्दाववह्निप्रशान्तेगोत्रैः कृप्तोपकृतिसुकृतं रक्षितुं त्वां नियुक्ताः । नद्यस्तासां प्रचितवयसामर्हसि त्वं न धैर्यान् , मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि ॥४४॥ काचित् कान्ता सरिदिह तव प्रेक्ष्य सौभाग्यभङ्गीमङ्गीकुर्याचपलसलिलावर्त्तनाभिप्रकाशम् । चक्रोरोजावरुणकिरणाच्छादनात् पीडयास्याः, ज्ञाताखादो विपुलजघनां को विहातुं समर्थः ॥ ४५ ॥ वर्मन्यस्मिन् विविधगिरयस्त्वत्परिस्यन्दमन्दीभूतोत्तापाः क्षितिरुहदलैस्तेऽपनेष्यन्ति खेदम् ।
पुष्पामोदी करिकुलशतैः पीयमानस्तवातः, शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ४६॥ [ अनन्तरागत-अणकि-टणकि-तुंगिआदिशैलवर्णनम् -]
गत्यौत्सुक्येऽप्यणकि-टणकीदुर्गयोः स्थेयमेव, पार्श्वः स्वामी स इह विहृतः पूर्वमुवीशसेव्यः । जाग्रद्रूपे विपदि शरणं खर्गिलोकेऽभिवन्द्यम् , अत्यादित्यं हुतवहमुखे संभृतं तद्धि तेजः ॥ ४७॥ उत्पत्यास्मात् प्रणम विपुले तुङ्गिाआशैलशृङ्गे, रामं कामं श्रवणवृषभं बोधितारं पशूनाम् । तत्संबुद्धान्वयजशिखिनो मूर्तिमस्याभिषिच्य, पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ ४८ ॥ वर्षाभिस्ते शिखरिशिखराद् गैरिकाणां प्रवाहैः, सिन्धुः पूर्णा ह्यवनिवनिताचङ्गनीरङ्गिकेव । जेष्यत्येष्यन्नवजलभरासङ्गमोत्फेनराशिः, श्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥४९॥ उत्तीर्याथ त्वयि शिखरिणां धोरणेनिम्नभावाल्लीने भूमाविव जललवच्छैवलिन्योः प्रसङ्गैः । द्रक्ष्यन्त्योघं त्रिदशवनिताः स्निग्धतापात्रनेत्रैरेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ५० ॥ [ सूर्यपुर-तापिका-भृगुपुर-रेवा-मही-हरिगृहपुर-साभ्रमत्यादीनां लाटदेशान्तर्गतनगर-नद्यादीनां वर्णनम्-]
एष्यत्यग्रेऽभ्युदयकमलामन्दिरं बन्दिरं श्रीसूर्याख्यं ते नयनविषयं स्वर्णपूर्ण क्रमेण । संगन्तास्मिन् सुहृदपि घनो मालवात् ते स्वगात्रं, पात्रीकुर्वन् दशपुरवधूनेत्रकौतूहलानाम् ॥ ५१ ॥ सभ्येभ्यानामहमहमिकावृद्धसौधाग्ररत्नैरातिथ्यं ते बह विरचयन् मानयेस्तत् पुसपि । हैमैः श्राद्धव्रज इह गुरोरागमे मार्गणानां, धारापातैस्त्वमिव कमलान्यभ्यवर्षन् मुखानि ॥५२॥ श्रीमान् पार्श्वप्रभुरिह जयत्यग्रजाग्रत्प्रभावस्तस्य स्नात्रामृतसमुदयैः पूयते तापिकाऽपि । संसृज्यैनां रुचिररमणीस्नानकर्पूरपूर्णाम् , अन्तःशुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ५३॥ तस्माद् गच्छेरनु भृगुपुरं सिन्धुबन्धुप्रसक्तामद्रे हामिव शशिसुतां पूर्वगङ्गेति नाम । रक्षन्ती या प्रसृमरजटाघट्टदम्भाद् वटस्य, शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥५४॥ रेवातीरे भृगुपुरवरस्फाटिकावासराजी, तस्या बिम्ब विमलसलिले स्खधुनीवाऽपराऽस्ति । तत्र च्छाया परतटमथालम्बते ते तदैषा, स्यादस्थानोपगतयमुनासङ्गमेनाभिरामा ॥ ५५॥ अग्रे दृष्ट्वा जलमयमहीवन्महीनामसिन्धु, सिन्धोरूमीपृथुतरभुजैर्गाढमालिङ्गयमानाम् । लैब्धा स्तब्धाब्धिकफनिचयाभ्यासवर्ती हिमाद्रौ, शोभा शुभ्रत्रिनयनवृषोत्खातपङ्कोपमेयाम् ॥५६॥ स्थाने स्थाने सरणिधरणीभृद्भिरागृह्यमाणा, तन्वी खेदादुपपंति सरेत् तर्हि नीरैस्तथाऽस्याः। कुर्याः पौष्यं स्खलति न यथा भूषिता चक्ररत्नैरापन्नार्तिप्रशमनफलाः संपदोऽद्युत्तमानाम् ॥ ५७॥ उत्तीर्णस्तां हरिगृहपुरं प्राप्य तत्कौतुकार्थी, व्यालम्बेथा मणिमयशिलाप्रौढसभ्यालयालीम् । यत्ते द्विष्टाः पवनयवनास्तत्र भङ्गं लभन्ते, के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५८॥
१ 'तुङ्गिआ' इति नाम । २ अवनिरेव वनिता स्वीः तस्याः चङ्गा मनोहरा नीरङ्गिका मुखावगुण्ठनमिव । ३ लब्धा प्राप्स्यतीत्यर्थः। ४ अब्धिकफः फेनः। अभ्यासः सामीप्यम् , दन्त्योपान्त्योऽप्ययं शब्दः। ५ पत्युः स्वमनःकल्पितस्य दयितस्य समीपं उपपति, सरेत् = अभिसरेत् । ६ चक्रस्थाने 'चारु' इति स्याच्चेद् वरम् ।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org