________________
विज्ञप्तिलेखसंग्रह
तत्र व्यक्तं दृषदि चरणन्यासमासज्य पूज्यं, राज्याधीशैर्विजयपदतः सेनसूरेभजस्व । तीर्णान्यन्यान्यपि सुमनसो यानि दृष्ट्वेव भव्याः, सङ्कल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५९॥ स्त्रीवक्राब्जे भ्रमरललितं सुभ्रुवोः प्रेक्ष्य तत्र, कान्तारेऽब्धेस्तटमनुसरेस्साभ्रमत्याः प्रसङ्गि । वीचीनृत्यैस्तव घनरवैर्वेणुवादैर्जनस्य, सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥ ६० ॥ सिन्धोर्वेलाशिखरिषु तवाभ्यागमात् पुष्पितेषु, स्थित्वा रात्रावविरतरतश्रान्तविद्युद्वधूकः ।
किञ्चित्साचीकृतनिजतनुः पश्चिमामाश्रयेथाः, श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ ६१॥ [ सौराष्ट्रदेशशस्थितसिद्धशैलापराख्य-शत्रुञ्जयपर्वतवर्णनम् - ]
सौराष्ट्रीणां हृदि विरचयन् बिन्दुभिौंक्तिकाली, पावित्र्यार्थं ननु निजतनोः सिद्धशैलं मजेथाः। यः शृङ्गस्थोन्नतजिनगृहच्छत्रगौरांशुभासी, राशीभूतः प्रतिदिशमिव त्र्यम्बकस्याट्टहासः ॥ ६२ ॥ मन्ये नन्तुं वृषभभगवत्पादयुग्माम्बुजन्म, तत्रारूढे त्वयि शिखरिणः स्निग्धवेणीसवर्णे । भृङ्गव्याप्ताविव हि कुमुदस्तस्य शोभा भवित्रीम् , अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ६३॥ गन्धालीः कुसुमसलिलेः पूजनायां जिनेन्दोवृन्देऽलीनां स्फुरति परितो भाविनी काऽपि शोभा। भावार्हन्ये चिकुरनिचये वाञ्जनाभे सलीलम् , अंसन्यस्ते सति हलभृतो मेचके वाससीव ॥६४॥ (-पाठान्तरम् ) संपूज्याऽऽरात्रिकरचनया विद्युतो माँरुदेवं, स्तोत्रैर्मन्द्रध्वनितजनितैश्चाभिनन्द्यात्मशुद्ध्यै । अभैः स्त्रीणां विषमसरणौ श्रोणिभारालसानां, सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ ६५ ॥ आस्थाय श्रीवृषभविभुना सोऽयमष्टापदामः, पूतस्तेनात्मनि जलभृते मानसत्वं विदध्याः । यास्तत्रार्हन्महनेंविधये स्वर्वशाः स्नान्ति नैव, क्रीडालोलाः श्रवणपरुपैगर्जितै पयेस्ताः ॥६६॥ वर्षोत्कर्षैर्दुमसमुदये विद्रुमाभां वितन्वन् , मत्वा सिद्धस्थलमनुपदं नर्तयन् मोरसार्थान् । नित्यं शत्रुञ्जयमनुनयन् वातलूनैः प्रसूनैर्नानाचेष्टैर्जलद ! ललितैर्निर्विशेस्तं नगेन्द्रम् ॥ ६७ ॥ [अथ गच्छाधीशवासस्थानभूतश्रीदेवकपत्तनवर्णनम् -]
उद्यातोऽस्माद् गुरुयुगपदन्यासमानम्य सम्यग् , वार्धावन्तःपुलिननिवसद् द्वीपपुर्यामवेयाः । प्रावृट्काले वहति निलयैर्या जलान्युगिरद् वो, मुक्ताजालप्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६८॥ श्रेणीभूतापणविलुलितव्यक्तमुक्ताम्बुधाराः, कान्ताकान्तिस्फुरिततडितस्तोरणेन्द्रायुधाब्याः । नित्यं नृत्यप्रहतमुरजस्निग्धगम्भीरनादाः, प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ ६९ ॥ भुक्त्वा सौख्यं चतुरवनितागात्रधाराग्रहस्त-स्पर्शः पुष्पोपवनपवनश्लिष्टरम्भाः प्रपश्यन् । रोधः सिन्धोरनुभव मुदा यत्र योधा रमन्ते, प्रत्यादिष्टाभरणरुचयश्चन्द्रहासत्रणाकैः ॥ ७० ॥ गजैरुर्जस्खलजलनिधेः क्षोभभावं प्रणेष्यन् , क्षेमावाप्तं त्रिदशनगरं त्वं विशेस्तातपूतम् । द्यावाभूम्योः प्रमुदचरितं वक्ति साक्षाद् द्रुमेषु, सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ ७१॥ शास्तीत्येवं गुरुपरिचितं यत्पुरं दह्यमान-धूपव्यक्त्या चिकुरवलयैर्नृत्यकृत्केतुहस्तैः । लक्ष्मीवासाम्बुजमहममी पट्पदास्ते न यद्वा, वित्तेशानां न खलु च वयो यौवनादन्यदस्ति ॥ ७२ ॥ दण्डश्चैत्ये कुसुमनिचये बन्धनं विप्रयोगो, दातुरे चलकुटिलता सुभ्रुवोर्नान्यलोके । केशासक्त्या (?) ह्यगुरुदहनोद्भूतधूमस्य मन्ये, वित्तेशानां न खलु च वयो यौवनादन्यदस्ति ॥ ७३ ॥
(-पाठान्तरम्) १ तेर्यकृतस्वशरीरः। २ सिद्धाचलं शत्रुञ्जयापरपर्यायं जैनमहातीर्थम् । ३ भृङ्गव्याप्तो भ्रमरकृते आक्रमणे सति कुमुदः कुमुदस्येव तस्य सिद्धाचलस्येत्यर्थसंबन्धः । ४ मरुदेवाया अपत्यं ऋषभमित्यर्थः। ५ पूजार्थम् । ६ देवाङ्गनाः। ७ प्रसादयन् । ८ वियोगो ब्राह्मणयोगश्च ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org