________________
इन्दुदूताभिधानं विज्ञप्तिपत्रम्
गोपीनाम्नः किमिह सरसो वर्णयामो महत्त्वं यत्क्षीराब्धेः कलयति कलां मथ्यमानस्य नो चेत् । आस्ते कुक्षौ किमिह निहितो मेरुरद्यापि किं वा, वीचिक्षोभो मथनजनितत्रासतोऽत्रागतस्य ॥ ९५ ॥ नीलच्छायां क्वचिदविरलैर्नागवल्लीदलौघैः, शुभ्रच्छायं क्वचन कुसुमैर्विस्मृतैर्विक्रमाय । पिङ्गं चङ्गैरतिपरिणतैः कुत्रचिचेक्षुदण्डैर्नानावर्णं पुरमिदमिति द्योतते सर्वदापि ॥ ९६ ॥ पोतोत्तीर्णाम्बुधिपरतटोद्भाविनो वस्तुवृन्दान्, द्राक् संख्यातुं क इह गणनाकोविदोऽपि क्षमेत । ईष्टे मातुं क इव रजतस्वर्णमाणिक्यपुञ्जान्, गुञ्जानेमारुणतररुचींश्चाङ्करान् विद्रुमाणाम् ॥ ९७ ॥ रूप्यस्वर्णप्रकरघटनप्रौत्थितैष्टङ्कशाला गर्भोद्भूतप्रतिरवशतैस्तारतारैष्ठकारैः ।
नात्र क्वापि प्रभवितुमलं दुष्टदौर्गत्यभूतः, पूतः क्षौद्रैर्युपशमविधौ मन्त्रसारष्ठकारः ॥ ९८ ॥ यत्र श्राद्धास्ततसुमनसो विश्वमान्या वदान्याः, संख्यातीता अमितविभवाः प्रौढशाखाप्रशाखाः । कुत्राप्याद्याद्यरकजनिताः संस्थिताः कल्पवृक्षाः, प्रादुर्भूतास्तपगणपतिप्रौढपुण्यानुभावात् ॥ ९९ ॥ शिल्पिप्रष्ठै रचितविविधानेकविज्ञानहृद्यं, हिङ्गुत्वाद्यैः कनकखचितैर्वर्णकैर्वर्णनीयम् ।
दत्त्वानन्दं स[हृ]दयहृदां वृन्दमर्हगृहाणां, चित्रैश्चित्रं क इह न जनो वीक्ष्य चित्रीयतेऽन्तः ॥ १०० ॥ [ गोपीपुरमध्येस्थित जैनोपाश्रयवर्णना - ]
मध्ये गोपीपुरमिह महाश्रावकोपाश्रयोऽस्ति, कैलासाद्रिप्रतिभट इव प्रौढलक्ष्मीनिधानम् । अन्तर्वर्त्यर्हतमतगुरुप्रौढतेजोभिरुद्यज्योतिर्मध्यस्थितमघवता ताविषेणोपमेयः ॥ १०१ ॥ भित्तौ भित्तौ स्फटिकसरुचौ कुट्टिमे कुट्टिमे च, संक्रामंस्त्वं सुभग ! भविताऽस्यात्तलक्षस्वरूपः । युक्तं चैतत्तरणिनगरोपाश्रयस्यान्यथाश्रीर्द्रष्टुं शक्या न खलु वपुषैकेन युष्माशाऽपि ॥ १०२ ॥ तस्य द्वाराङ्गणभुवि भवान् स्थैर्यमालम्ब्य पश्यन्, साक्षाद्देवानिव नृजनुषो द्रक्ष्यति श्राद्धलोकान् । हस्त्यारूढानथ रथगतान् सादिनश्चार्थपौरुष्यर्थान् श्रोतुं रसिकहृदयाशीघ्रमाटीकमानान् ॥ १०३ ॥ माद्यद्भूरिद्विप मदरसाश्वीय लालानिपात क्लिन्नां खिन्नामिव घनजनत्रातसंमर्दखेदात् । द्वारं स्वस्याङ्गणभुवमतिप्रेसितैस्तोरणानां, स्नेहादाश्वासयति मरुतां प्रेरणेनेव शश्वत् ॥ १०४ ॥ मध्ये तस्याः श्रमणवसतेर्मण्डपो यः क्षणस्य, सोऽयं कान्त्याऽनुहरति सतां तां सुधर्म्यं मघोनः । मुक्ताचन्द्रोदयपरिचितस्वर्णमाणिक्यभूषा श्रेणीदीप्तो विविधरचनाराजितस्तम्भशोभी ॥ १०५ ॥ मध्ये सिंहासनमनुपमं तस्य शक्रासनाभं, चेतश्चैतत् सुखयति सतां हृद्यपद्यानुकारम् । सालंकारं सुघटितमहासंधिबन्धं सुवर्णं, स्वच्छच्छायं सुललितचतुःपादसंपन्नशोभम् ॥ १०६ ॥ दीप्रोपान्तः स्वसदृशरुचा पादपीठेन नम्रक्ष्माभृच्छ्रेणीमुकुटघटनाकोमलीभूतधाम्ना । पङ्क्योडूनामिव गुणयुजा मौक्तिकस्वस्तिकेन, व्योम्नो लक्ष्मीं किल निदधतोपेन्द्रपादाञ्चितेन ॥ १०७ ॥ [ तदुपाश्रयावस्थित - तपागच्छाधीशसूरिवर्णनम् - ]
तत्रासीनं परिणततपस्तेजसा पीनमन्तः, शुक्लध्यानोद्भव नवमहोद्द्योतितात्मखरूपम् । साक्षात्तीर्थंकरमिव जगज्जन्तुजीवातुभूतं, मूर्त्या शान्ताद्भुतमधुरया दत्तभव्यप्रमोदम् ॥ १०८ ॥ अभ्यस्तानां गुरुमुखकजादागमानां निधानं, साक्षादाद्यं गणधरमिवानेकलब्धिप्रधानम् । ज्ञानालोकप्रकटितजगत्तत्त्वदत्तावधानं, ध्यानं धर्म्यं हृदि निदधतं सिद्धिशय्योपधानम् ॥ १०९ ॥ आकर्षन्तँ कठिनतपसां लीलया सिद्धिराज्यं, स्वर्गादीनां सुखमनुपमं मन्यमानं तृणाय । आचामाम्लाद्यतिपृथुतपःकार्श्यतः श्वेतकान्ति, सम्यलिप्तं किल धवलया लेश्ययान्तर्बहिश्च ॥ ११० ॥
Jain Education International
For Private & Personal Use Only
९५
10
13
20
3
www.jainelibrary.org