________________
16
15
28
25
९४
30
विज्ञप्तिलेखसंग्रह
[ अथ लाटदेश - तन्नगरविशेषवर्णनम् - ]
1
तस्माद् द्रङ्गाच्छमनककुभिः प्रस्थितस्यान्तरा ते, स्वर्गाकारं नगरमपरं लाटदेशस्य पुण्ड्रम् | दर्श दर्श मनसि परमप्रीतिरापत्स्यते यन्नानालक्ष्मीरुचिरवपुषां तत्र वासो जनानाम् ॥ ७९ ॥ लङ्का शङ्कां मनसि दधती तोयराशौ ममज्जातीते दृग्भ्यो वसति च पदे हन्त वस्वोकसारा । पातालं प्राविशदपमदा सापि भोगावतीमां, दृष्ट्वा रम्यामनुपमतमां वाटपद्रीमभिख्याम् ॥ ८० ॥ मध्येऽस्त्यत्र प्रचुरसुख (प) मो मण्डपोऽत्यन्ततुङ्गस्तत्र स्थित्वा चतसृषु दिशास्वीक्षणीयं त्वयेन्दो ! | द्रष्टासि द्राक् श्रियमनुपमामस्य विष्वक्पुरस्य, रम्यं ह्येतच्छुचिरुचिचतुर्द्वारचैत्यानुकारम् ॥ ८१ ॥ अत्यासन्नं भृगुपुरमितो यास्यसि प्रौढदुर्गा, दुर्गन्धांशोज्झितमतिसुरैर्भूरि पौरैः परीतम् । भूपीठे मत्सदृशमपरं वर्तते वा न वेति, द्रष्टुं रङ्गान्तरमिव समारूढमुच्चप्रदेशम् ॥ ८२ ॥ तस्योपान्ते सुखयति नदी नर्मदा नर्मदोर्मिस्तोमै रोमोममतिहिमैः कुर्वती नौस्थितानाम् । क्रीडद्गन्धद्विपमदरसोद्दामगन्धिप्रवाहा, चञ्चत्क्रीडावनघनतटा नाव्यनीरा गभीरा ॥ ८३ ॥ आलोक्य द्राग् भुवनममृतैस्तर्पयन्तं भवन्तं, तातं आतर्भवतु मुदिता नर्मदा ते तनूजा । प्राप्तोल्लासो भवतु च भवानप्यपत्येक्षणेन, संसारे यजनितजनकप्रेमबन्धो ! गरीयान् ॥ ८४ ॥ तत्र स्थित्वा भृगुपुरमहावप्रवातायनाग्रे, दृष्ट्वा हृष्टो निजतनुभुवो धावनोद्वल्गनानि । गच्छेः स्वच्छे तरणिनगरोपान्तभूमिप्रदेशे, श्रीश्रीपूज्यक्रमविहरणध्वस्तपापप्रवेशे ॥ ८५ ॥ [ तरणिनगरापराभिधान - सूर्यपुर- तदन्तर्गतगोपीपुरस्थानवर्णनम् - ]
Jain Education International
खर्जूरीणां विपिनपटलीतुङ्गतालद्रुमाणां तत्र श्रेणीस्तपनतनयातीरभूमिप्ररूढा । मन्दं मन्दं प्रसृमरमरुत्कम्पितां मौलिकम्पैः, श्लाघामन्तः सृजति नगरस्यास्य लोकान्तरस्य ॥ ८६ ॥ पोतश्रेणीपरिचयमिषात् तीरवेद्विमाना, मज्जहृन्दारकवरवधूर्नागरैर्नागरीभिः । स्वादुस्वच्छस्फटिकरुचिराम्भोभरैरुत्तरङ्गा, तापी तत्र श्रयति तटिनी स्वर्गगङ्गानुकारम् ॥ ८७ ॥ एनां संगच्छति जलनिधिः प्रत्यहं द्वित्रिरस्याः, सौभाग्येनातिशयगुरुणा कार्मणेनेव वश्यः । अभ्रच्छन्नस्त्वमपि भविताऽस्येतयोर्योगकाले, पित्रोः पश्यन् क इह सुरतं लज्जते नेजडोऽपि ॥ ८८ ॥ तत्र श्रीमत्तपगणपतेः सद्विहारानिलोर्मिष्टुष्टातङ्कां फलदल सुमस्फातिसंपन्नवृक्षाम् । इष्टानेहःपरिगतघनोद्भासि भूयिष्ठसस्यां, द्रक्ष्यस्यर्हत्समवसरणापास्तदोषामिव क्ष्माम् ॥ ८९ ॥ नम्रीभूताः प्रतिपदमहो लुम्बिवृन्दैः फलानां स्वर्णैर्योषा इव धनवतां सन्ति कम्राः कदल्यः । स्निग्धच्छायैर्मधुरफलदैर्मण्डपैर्गोस्तनीनां, गेहैर्ग्रामा इव सुमनसां तत्र कान्ता वनान्ताः ॥ ९० ॥ दीप्ताः पुष्पैरविरलदला मण्डली चम्पकानां तत्रोद्याने तुलयति निशां सुष्ठु दीपालिकायाः । माकन्दानां ततिरपि फलैर्लक्षिता पलवैश्च, नागश्रेणीममसृणसृणि हेमघण्टावलीढाम् ॥ ९१ ॥ उद्यानानां नगरमभितः संततिर्भाति नानावृक्षैर्लक्षैर्विविधसुमनः संवितानां लतानाम् । क्रीडद्दम्पत्युचितकदलीमन्दिरैर्बालकानां, गेहैः क्रीडाभवनसरसी दीर्घिका वापिकाभिः ॥ ९२ ॥ पोतान् पोतानिव जलनिधेः कुक्षिनिक्षिप्तनानावस्तुस्तोमांश्चतुर भविता पश्यतस्ते विलम्बः । जाग्रज्ञैत्रध्वजपरिगताजङ्गमद्रङ्गतुल्यान् पश्यन्नेतान्न भवति जनः कोऽत्र विक्षिप्तचेताः ॥ ९३ ॥ दुर्गों भर्गोज्वलवपुरिहोत्कन्धरश्चन्द्रशालादम्भात् सौधच्छदिरुपचितो मौक्तिकच्छत्रशाली । नानायत्रप्रहरणधरो युद्धसज्जोग्रशस्तः क्षत्रस्यैष श्रयति सुख ( प ) मां धैर्यगर्वोद्धुरस्य ॥ ९४ ॥
For Private & Personal Use Only
www.jainelibrary.org