________________
इन्दुदूताभिधानं विज्ञप्तिपत्रम्
दृष्ट्वा चैनं ब्रज गजगते ! सत्वरैः पादपातैर्नालस्यं स्यादुपकृतिकृतां त्वादृशां ह्युत्तमानाम् ॥ ६३॥
[ ततोऽग्रे मार्गगतस्य सिद्धपुरनगरस्य सूचनम् – ]
याम्यामस्माद् ब्रज नगवरान् मारवीनां नवीनां, श्रीखण्डाच वपुषि रचयंश्चन्द्रिकाणां तरङ्गैः । सिद्धद्रङ्गे क्षणमथ सरखत्युपेते विलम्ब्य, राजद्रङ्गं भुवनविदितं यास्यसि त्वं निमेषात् ॥ ६४ ॥ [ राजद्रङ्गापराभिधान - अहमदाबादनगरवर्णनम् ]
तत्रालोक्य स्वपतितनयं राजतेजोऽभिरामं, दर्भाङ्करच्छलपुलकिता त्वामुपस्थास्यतेऽसौ । आमूलाग्रं तरलिततनुर्वीचिहस्तैरुदस्तैर्दूरादालिङ्गितुमिव रसात् साभ्रमत्यब्धिकान्ता ॥ ६५ ॥ एषा क्वापि प्रचुरतरभैः काननैः कमकूला, क्वापि क्रीडद्युवतिनिकरैरप्सरः सेवितेव । सद्वेषेव क्वचन विततैरम्बरैधतमुक्तैर्मुक्ताशुक्त्यावलिरुचितरैः क्वाप्यलंकारितेव ॥ ६६ ॥ प्रीणात्येषाऽखिलपुरजनान् सत्पयःपानदानादुत्सङ्गस्थान् रमयति च तान् केलिलीलाविलोलान् । दूरादालिङ्गति च विततैवींचिहस्तैः पुनीतेऽपूतान्नास्याः कथमतिहिता नेयमम्बा नगर्याः ॥ ६७ ॥ नद्याश्वास्याः सुचिरमुभयोः कूलयोः संनिविष्टाश्चक्राह्नानां हृदयदयिताचाश्रुभिः क्लिन्ननेत्राः । पादैर्मा स्मारतिमुपनयैर्विप्रयुक्ताः प्रसयैः, कण्ठप्राणा नहि विरहिणः कृच्छ्रमीषत् सहन्ते ॥ ६८ ॥ आरूढानां भवनवलभीं गौर्जरीणां त्वदीक्षाफुल्लाक्षीणां प्रियतमकरन्यस्तहस्तोत्पलानाम् । पश्यन्तीनां नगरमभितोऽलंकृतं चन्द्रिकाभिर्बन्धो ! निर्वापय निजकरैः सुष्ठु हक्करवाणि ॥ ६९ ॥ क्रीडाहर्म्यं प्रियसहचरीप्रेरणाभिः प्रविष्टाः, शय्योत्सङ्गं प्रणयचटुभिः प्रेयसा प्रापिताश्च । व्रीडोद्रेकाद् गृहमणिमुपाहत्य कर्णोत्पलेन, कान्तोपान्ते तमसि कथमप्यासते या विमुग्धाः ॥ ७० ॥ मा कार्षीस्त्वं तरुणकिरणैर्जालमार्गप्रविष्टैस्तासां कान्तप्रसभहृत सच्चीवराणां प्रकाशम् ।
किं कुर्युः संवरितुमनलं भूष्णवस्तास्त्वदंशून्, मौग्ध्यादेवानवगतधवाक्ष्यब्जसंवृत्युपायाः ॥ ७१ ॥ (युग्मम्) तत्राट्टानां ततिषु निहिता भूरि रत्नप्रकारास्तारास्ताराधव ! तव करैः सुष्ठु संयोगमेत्य । प्राप्तोलासा इव नवरुचो दर्शनीया भविष्यन्त्युल्लासं हि प्रथयति चिराद् बन्धुवाहानुषङ्गः ॥ ७२ ॥ लक्ष्मीस्तत्रारमति सततं भूरि कोटिध्वजानां, गेहे गेहे बहुविधधनैः क्लृप्तनानास्वरूपा । दृष्ट्वा चैनां सुभग ! भगिनीं त्यक्तचाञ्चल्यदोषां, चिन्तातीतं नियतमतुलं प्राप्स्यसि त्वं प्रमोदम् ॥ ७३ ॥ एकैकोऽस्य ध्रुवमुडुपते ! पाटकोऽन्यैः पुराणां, वृन्दैस्तुल्यो जनपदसमान्येव शाखापुराणि । वेश्मैकैकं पृथुतरमुरुग्रामतुल्यं तदस्य, माहात्म्यं कः कथयितुमलं प्राप्तवाग्वैभवोऽपि ॥ ७४ ॥ मुक्तापुञ्जान् प्रतिपदमुरून् रत्नराशीन् प्रवालाङ्करान् शङ्खान् मृगमदसरान् वीक्ष्य भूयो वरांश्च । मा ज्ञासीस्त्वं स्वपितुरुदधेर्हन्त सर्वस्वमात्तं द्रङ्गो ह्येष प्रकृतिगुणतो ज्येष्ठरत्नाकरोऽस्ति ॥ ७५ ॥ अस्य व्यक्त्या निशमनमहो वर्षलक्षानुपाति, सामान्येनामृतकर ! ततश्चैकदेशो विलोक्यः । तस्मिन् दृष्टे निखिलमपि तद् दृष्टमेवावधेयं, सर्वं दृष्टं वदति हि जनो वर्णिकादर्शनेन ॥ ७६ ॥ रत्नज्योतिः कनकरजतज्योतिरट्टावलीषु, स्त्रीपुंसाङ्गाभरणतरुण ज्योतिरत्र प्रदोषे । दीपश्रेणीप्रकटितपटुज्योतिरिन्दोस्त्वदीयज्योतिर्योगे भवतु विविधज्योतिषां संनिपातः ॥ ७७ ॥ तत्र प्रत्यापणमनुगृहं दीपकानां कदम्बे, स्तोकं पौराणिक इव निशि व्यञ्जयत्यर्थजातम् । गत्वा प्रामाणिक इव महान् व्यञ्जयन् सर्वतोऽर्थं, वैलक्ष्यं तं तरलितकरः प्रापयिष्यत्यवश्यम् ॥ ७८ ॥
Jain Education International
९३
For Private & Personal Use Only
10
15
20
www.jainelibrary.org