________________
विज्ञप्तिलेखसंग्रह
[ अर्बुदाद्रेस्तत्र स्थितानां जनचैत्यानां च वर्णनम् -]
तस्याः पुर्या भवति पुरतो नातिदूरेऽव॑दाद्रिद्रष्टव्योऽसौ तरुपरिवृतोदभ्रमभ्रंकषाग्रः । नादैगीतैरिव जनमनांस्याहरन् कीचकानां, गन्धर्वाणामिव नवमरुचालनाद् घूर्णमानैः ॥ ४७॥ शृङ्गेऽमुष्योन्नतिभृति सरस्तीरभूमिग्ररूढान् , दूर्वाङ्करान् किल कवलयिष्यत्यसौ ते कुरङ्गः । भूयः कालक्षुदुदयकृशश्चारणीयोऽयमिन्दो !, सामग्र्यम्भोभरतृणततेदुर्लभाखेटतोऽस्य ॥४८॥ कूजद्भिर्ये श्रुतिसुखकराः कोकिलैर्मलिकानामामोदैश्च प्रसृमरतरैः प्राणिनो मोदयन्ति । उद्गच्छद्भिर्नवनवतृणैर्वर्यवैडूर्यबद्धक्षोणीपीठा इव विदधते शं निकुञ्जा द्रुमाणाम् ॥ ४९ ॥ तेषूचैर्मा स्म भवदमितः खर्वधूप्रस्तुतैस्तैवीणानादैरपहृतमना दूरकृष्टो मृगस्ते । मा भूत् खेदस्तदनु च तदन्वेषणे वा विलम्बो, गन्तुं त्यक्त्वाश्रितमणुमपि त्वादृशा नोत्सहन्ते ॥ ५० ॥ तस्मात् स्वस्मान्नयनविषयान्नायमत्यन्तदूरं, गन्तुं सह्यो नवधनतृणास्वादविक्षिप्तचेताः। यन्निर्मग्ना अपि करिवरा अर्बुदाद्रेः कुडङ्गेष्वप्राप्याः स्युर्बहलविटपिष्वन्यजन्तोः कथा का ॥५१॥
-त्रिभिर्विशेषकम् । यद्यप्येतद्घनवनगतं नान्धकारं करास्ते, हन्युर्मा भूतु तदपि हि भवान् खे मृदुत्वे विषण्णः । येषूष्णांशोरपि किल कराः कुण्ठतामाश्रयन्तेऽनङ्गीक्रीडासदसि दिविषत्पुंश्चलीनां दिवापि ॥ ५२ ॥ तत्र श्रीमान् विमलवसतौ भाति नाभेयदेवसेवायातत्रिदशनिकरः पूर्णपादोपकण्ठः । नेमिस्वामी दिशति च शिवान्यानतानां निविष्टः, साक्षादिन्द्रालय इव वरे वस्तुपालस्य चैत्ये ॥ ५३॥ रूप्यस्वच्छोपलदलमयौ चित्रदोत्कीर्णचित्रौ, चञ्चच्चन्द्रोदयचयचितौ कल्पितानल्पशिल्पौ । जीयास्तां तौ विमलनृपतेर्वस्तुपालस्य चोचौ, प्रासादौ तौ स्थिरतरयशोरूपदेहाविव द्वौ ॥ ५४॥ एषा भूमिर्विमलविभुना ब्राह्मणेभ्यो गृहीता, चैत्यं कर्तुं रिपुसुरजिता रूप्यमास्तीर्य विष्वक् । ऐतिह्यानि त्वमिति जरतां कुर्वतां मित्रगोष्ठी, तत्र श्रोष्यस्यनुसृतभवचन्द्रिकाणां मुखेभ्यः ॥ ५५॥ द्रष्टव्यः स्यादयमपि सखे ! भीमसाधोर्विहारस्ताीयीकस्त्रिदशसदनस्फातिगर्वापहश्रीः । एवं चैतत् त्रिभुवनमतिक्रम्य शोभाविशेषैः, प्रासादानामिह समुदितं प्रीतिगोष्ठयै त्रिकं किम् ॥५६॥ आस्ते चैत्यं खरतरकृतं नातिदूरे यदेषां, तत्रोत्तुङ्गे चतसृषु दिशास्वहतो वन्दमानः । साक्षादृष्टं समवसरणं यद्विदेहावनीषु, तत्संस्कारोदयसहकृतं संस्मरिष्यस्यवश्यम् ॥ ५७ ॥ अन्ये चात्रामृतकर! हरिद्वाससां ये विहारा, द्रष्टव्यास्ते न खलु भवता तत्र वन्द्या जिनार्चाः । दिक्चेलानां कटुकम तिनां द्रव्यलिङ्गस्पृशां यन्नार्हद्विम्बं सुविहितमुनेर्वासयोगं विनाय॑म् ॥ ५८॥ किंचिद्रे भवति च ततस्तत्र दुर्गोऽचलाख्यो, मोलौ तस्मिन् विलसति चतुरमुत्तुङ्गचैत्यम् । यादृक्तत्रोच्छ्रितमनुपमस्वर्णरीरीविमिश्र, न क्षमापीठे क्वचिदधिगतं तागर्चाचतुष्कम् ॥ ५९॥ नीचैः किंचिद् भवति च ततः कान्तमर्हन्निशान्त, श्रान्तं तारादिव नवरुचां गन्तुमूर्ध्वं न शक्तम् । दुर्गस्याधोऽप्यथ जिनगृहं श्रीकुमारक्षितीन्दोवन्देथास्तेष्वनुपममते ! भावतः श्रीजिनार्चाः ॥ ६ ॥ अस्त्येषोऽद्रिधुवमुपचितो भूरिदिव्यौषधीभिस्तस्मादस्योपरि किर रसं चन्द्रिकाणां विशिष्य । एताः पुष्टिं दधतु च रयादौषधीशस्य तेऽङ्गस्पर्शात् स्त्रीणां परममुदितं यौवनं भर्तृसङ्गः ॥ ६१॥ शैलेऽस्त्यस्मिन् प्रतिपदमहो लौकिकी तीर्थराजी, मिथ्यादृष्टिक्षितिपतिनतिप्राप्तमिथ्यानुभावा । न द्रष्टव्या सुभग ! भवता कौतुकादप्यसौ यन्मालिन्यं स्यात् तदभिगमनाच्छुद्धसम्यक्त्वरत्ने ॥ ६२॥ एवं स्थित्वा स्थिरतरधिया लोकनीयोऽर्बुदादिरस्यादृष्टा जगति हि जनो गण्यते गर्भ एव ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org