________________
इन्दुदूताभिधानं विज्ञप्तिपत्रम्
[ दूताग्रे गन्तव्यस्थान - तदीयमार्गस्य सूचनम् - ]
गन्तव्यस्ते तपनतनयातीरकोटीरमिन्दो !, सूर्यद्रङ्गो गुरुपदयुगस्पर्शसंप्राप्तरङ्गः । गत्वा तत्र त्रिभुवनजनध्येयपादारविन्दो, द्रष्टव्यः श्रीतपगणपतिर्भाग्यसंभारलभ्यः ॥ ३१ ॥ मार्गं तस्य प्रचुरकदलीकाननैः कान्तदेशं, स्थाने स्थाने जलधिदयितासंततिध्वस्तखेदम् । आकर्ण्यान्तःकरणविषये स्थापयोक्तं मयेन्दोऽभीष्टं स्थानं व्रजति हि जनः प्राञ्जलेनाध्वना द्राक् ॥ ३२ ॥ शैलादस्मादुपसर पथा दाक्षिणात्येन बन्धो !, गन्धोद्रेकोल्लसितकुसुमस्तम्भितेन्दिन्दिरेषु । स्थाने स्थाने सरससरसः काननेष्वंशुपूरैर्मोदं संपादय कुमुदिनीफुल्लपुष्पेक्षणानाम् ॥ ३३ ॥ [ दूतमार्गागितप्रथमप्रयाणस्थानभूतस्य सुवर्णचिलस्य वर्णनम् - ]
तुङ्गे तिष्ठ क्षणमुडुपते ! त्वं सुवर्णाचलस्य, क्रीडावापीसवन सरसैर्मारुतः शान्ततापः । तत्रत्यानां सकलदिवसक्षुद्व्यथापीडितानां, सौहित्यं त्वत्किरणकवलैः स्ताच्चकोराङ्गनानाम् ॥ ३४ ॥ तस्मिञ्शैलेऽन्तिमजिनवरावामवामेयदेवप्रासादौ यौ तरुणकिरणैः संगरं निर्मिमाते ।
मध्यस्थः सन् सुघटितरुची तौ कुरु प्रायशो यत्, प्रोत्तुङ्गानां भवति महतैवापनेयो विरोधः ॥ ३५ ॥ तत्र क्रीडोपवनसरसीस्वच्छनीरान्तरेषु, स्नात्वा स्वैरं प्रतिकृतिमिषान्नव्यधौतांशुकः सन् । ज्योत्स्नाजालैः स्रपय मधुरैर्वीरवामेयदेवौ, कर्पूराच्छैस्तदनु च करैरर्जयाभ्यर्च्य पुण्यम् ॥ ३६ ॥ तस्याधस्तान्नगरमपरः स्वर्ग एवास्ति यस्य, प्रौढभ्यानां भवननिकरैर्ध्वस्तमाना विमानाः । क्वाप्येकान्ते कृतवसतयः सज्जलज्जाभिभूता, भूमीपीठावतरणविधौ पङ्गतामाश्रयन्ति ॥ ३७ ॥ यद्यप्याशु ग्लपितनयना हस्तविन्यस्तवक्त्रा, दूयन्ते त्वत्किरणनिकरैर्निर्भरं विप्रयुक्ताः । विघ्नो यद्यप्यभिसृतिकृतां योषितां च त्वदीयैज्योत्स्नाजालैस्तिमिर निकरैर्दूर निर्वासिते स्यात् ॥ ३८ ॥ न प्रस्थेयं तदपि भवता वीक्ष्य दक्षेक्षणीयं द्रङ्गं शृङ्गारितकुवलयं चित्रसंपूर्णमेनम् । विष्वग्दत्त्वा नयनयुगलं सम्यगालोकनीयं, पश्चात्तापस्तुदति हृदयं दर्शनीये ह्यदृष्टे ॥ ३९ ॥ [ श्रीरोहिणी - सिरोही - इत्याख्यस्य पुरस्य वर्णनम् - ]
तस्माज्जालंधरपुरवरादुत्पतशीघ्रगामी, श्रीरोहिण्याः परिसरमथ प्राप्स्यसि त्वं निमेषात् । स्थित्वा तत्र क्षणमियमपि प्रेक्षणीया समन्तान्नान्तः शल्यं स भवति सतां सार्थको यो विलम्बः ॥ ४० ॥ तस्यां चैकं सुखमुडुपते ! धार्मिकाणां महीयो, यच्चैत्यानां शुचिरुचिमतामस्ति पतिव्यवस्था । तन्मध्यस्थे न भवति पथि प्रस्थितानां प्रयासो, दूरादेव प्रणतशिरसां देवदेवप्रणामे ॥ ४१ ॥ तेनैवाथ त्वमपि विरचिष्यत्यवश्यं पथेन्दो !, श्रद्धाशाली स्फुटमुभयतश्चैत्यमालाञ्चितेन । नामं नामं जिनभगवतामाकृती चैत्य संस्थाः पश्यन्नेकान्तरमवहितः सुष्ठु सव्यापसव्यम् ॥ ४२ ॥ एकं चैतद् वचनममलं मामकीनं न चित्तादुत्तार्थं स्वीकृत निजसुहृत्कार्यसिद्धेर्निदानम् । पत्रीणामिह हि नगरे संनिवेशो गरीयानास्ते तस्माद् धृतिमतिहराद् दूरमेवाभिगच्छेः ॥ ४३ ॥ काचिन्नाग्याः श्रयति समतां भोगिलोकोपगूढा, हत्री काचित् कलयति कलां तत्र किंपाकवल्याः । काचिद्गर्ता तुलयति युवभ्रंशहेतुः पणस्त्री, काचिच्चान्ध्यप्रथननिपुणा याति वात्या सखीत्वम् ॥ ४४ ॥ काचित्तीक्ष्णैर्नयनविशिखैर्मर्म यूनां भिनत्ति, नर्मालापैर्हरति हृदयं काचिदाकूतहृद्यैः । काचित् साचिस्मितविलसितैर्मोहयत्यल्पबुद्धीन्, धैर्यं काचित् पटुकुचतटोद्घाटनैर्लुण्ठति द्राक् ॥ ४५ ॥ तस्मादासां युवजनपृषद्वागुराणामवश्यं, दूरात्त्यागो भवति हि नृणां श्रेयसेऽमुत्र चात्र । तत्राप्यङ्गीकृतनिजसुहृद्व्याहृतेस्त्वादृशस्य, व्यासङ्गो नोचित इति हितं द्वित्रिरेतद् वदामि ॥ ४६ ॥
Jain Education International
For Private & Personal Use Only
९१
5
20
15
20
25
www.jainelibrary.org