________________
विज्ञप्तिलेखसंग्रह मार्गश्रान्तः क्षणमिह सुखं तिष्ठ विश्रामहेतोरुत्तुङ्गेऽस्मिशिखरिशिखरे दत्तपादावलम्बः । हृद्यः पद्माभिधवरसरः संभवस्त्वां समीरः, सर्पन्नुचैः सुखयतु सखे ! केतकीगन्धबन्धुः ॥ १४ ॥ नत्वा सीमंधरजिनपतिं प्राप्तपुण्यप्रकर्षों, भूयो नन्तुं त्रिभुवनगुरुं बाहुदेवं सहर्षः । मार्गे तीर्थप्रणतिविगलत्पापपङ्कः खमौलावर्हचैत्याञ्चित इति जगद्वन्ध ! वन्दामहे त्वाम् ॥ १५॥ खिन्नां तीव्रातपपरिचयात् तोयदस्तोयवृष्ट्या, सिञ्चन् यद्वत्सुखयति कृषि शोषकालोपपन्नः । प्रीतिं तद्वत् प्रियसख ! मम प्रापिता चित्तवृत्तिश्चिन्तोत्पत्तौ रहसि भवता यच्छता बन्धुना द्राक् ॥ १६ ॥ शान्ति नीते श्रम इति ततश्चेतसि स्वास्थ्यमाप्ते, दत्त्वा कर्णाववहितमनाः श्रोष्यसि प्रार्थनां मे । न श्रान्तानां सुखयति कथा स्निग्धवर्गोंदिताऽपि, स्वस्थे चित्ते प्रणयमधुरा बुद्धयो युद्भवन्ति ॥ १७॥ श्रुत्वा याां मम हिमरुचे ! न प्रमादो विधेयो, नो वाऽवज्ञाऽभ्यधिकविभवोन्मत्तचित्तेन कार्या । प्रेमालापैश्चतरवनितानिर्मितैर्विस्मृति न, प्राप्या प्रायः प्रथितयशसः प्रार्थनाभङ्गभीताः॥१८॥ भ्रातस्तातस्तव गुणनिधिः पश्य रत्नाकरोऽसौ, वर्षे वर्षे नवजलधरप्रापितैरम्बुपूरैः। विश्वं विश्वं तरुणतपनोद्दामतापाभितप्तं, सेकं सेकं सुखयति सदाभीष्टविश्वोपकारः॥ १९॥ किं नु ब्रूमस्तव जनयितुस्तस्य दानप्रियत्वं, यो देवानां सततममृतैः कल्पयामास वृत्तिम् । अश्वं चोचैः श्रवसमसमं नागमैरावतं च, दत्त्वेन्द्रस्य त्रिभुवनपतेः पूरयामास वाञ्छाम् ॥ २०॥ कन्यां दत्त्वा जगति विदितां यौतके कौतुकी च, योऽदान्मोदाद् युगपदमलं कौस्तुभं पाञ्चजन्यम् । एवं विश्वंभरमतितमां प्रीणयामास लोभाद् यन्नाद्यापि श्वशुरवसतिं संत्यजत्युत्तमोऽपि ॥ २१ ॥ जीयासुस्ते जगति विदिता भ्रातरः पञ्च चञ्चन्माहात्म्यास्ते वितरणभटाः पारिजातद्रुमाद्याः । द्राक्संकल्पोपनतसकलाभीप्सिता अप्यभीष्टं, याचन्ते यान् विनयविनता नाकिनो वासवाद्याः ॥ २२॥ मूर्ख प्राज्ञीयति च कुतनुं कामरूपीयति द्राग् , दीनं शूरीयति च कुटिलं प्राञ्जलीयत्यवश्यम् । करं शान्तीयति गतकलं सत्कलीयत्यजस्र, लोकं सोऽयं जयति निखिलस्त्वद्भगिन्याः प्रभावः ॥२३॥ याते श्यामा सुभग ! दयिता वर्धयत्युग्रलक्ष्मी, पक्कं पण तुलयसि यया विप्रयुक्तस्त्वमिन्दो! । सापि श्रान्तं भुवनमखिलं स्वस्खकर्मश्रमेण, निद्रादानात् सुखयति सदाभीष्टविश्वोपकारा ॥ २४ ॥ पीयूषा,स्त्वमपि किरणैर्जङ्गमस्थावराख्यं, भूतग्रामं सुखयसि सुतं संस्पृशन् द्रापितेव । क्रूरैः शूरप्रकटितकरैर्निर्भरं क्लिष्टलोकां, विष्वग् निर्वापयसि वसुधां सत्यमेवासि राजा ॥ २५॥ एवं विश्वोपकृतिकुशलः कः कुटुम्बे न तेऽस्ति, प्रायः सद्भिः प्रथितचरितैस्त्वादृशैर्वर्णनीये । यद्वा रत्नाकर इति यशः प्राप युष्माभिरेवाम्भोधिर्वप्नुर्भवति महिमोदारसत्त्वैस्तनूजैः ॥ २६ ॥ तस्माद् बन्धो ! जलधितनय ! प्रार्थनां मे समर्थ!, व्यर्थीकर्तुं न खलु कथमप्यर्हसि प्रौढवंश्य !। येनोत्कृष्टं जगति विदितं याचमानस्य जन्तोर्याजाभङ्गे भवति लघुता नैव सात्कि त्वमुष्य ॥ २७॥ नाशक्यं ते भुवनवलये मित्र ! पश्यामि किंचित् तेजःपुजैरनतिजठरैरक्रमाक्रान्तविश्व!। पादान् मूर्ध्नि त्रिपुरजयिनः कौतुकेनोपधायाह्नाय स्मेरीकृतततजगद्व्यापिशौर्यप्रतापः ॥ २८ ॥ कामं क्षामाकृतिमपि जगद् यज्जयन्तं न कोऽपि, छेत्तुं शक्तस्तदिह भवतो मातुलस्यानुभावात् । गोपालोऽपि त्रिभुवनमिदं क्लान्तवान् यत्रिपद्या, तत्राप्येतत् प्रभवति तव श्यालकस्यैव तेजः ॥ २९॥ या चाञ्चल्याद् भुवि विजयते विद्युतो नीचसङ्गात्, सिन्धुरन्धकरणगुणतो ध्यामलां धूमलेखाम् । सापि भ्रातुर्भवति भवतो माननीयानुभावाद्, विश्वे दोषान् गणयति जनो को हि राज्ञो भगिन्याः ॥३०॥
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org