________________
महोपाध्यायश्रीविनयविजयगणिप्रणीतं [२] इन्दुदूताभिधानं विज्ञप्तिपत्रम् ।
स्वस्ति श्रीणां भवनमवनीकान्तपतिप्रणम्यं,
प्रौढप्रीत्या परमपुरुषं पार्श्वनाथं प्रणम्य । श्रीपूज्यानां गुरुगुणवतामिन्दुदूतं प्रभूतो
दन्तं लेखं लिखति विनयो लेखलेखानतानाम् ॥१॥ [ लेखप्रेषकमहोपाध्यायस्य वर्षावासस्थानभूतस्य योधपुरनगरस्य वर्णना-]
यत्र व्योमव्यतिगशिखरेष्वहतां मन्दिरेषु, मूर्तीजैनीनयनसुभगाश्चन्द्रशालानिविष्टाः । दर्श दर्श विनयविनतोऽधोविमानावतारक्लेशं नासादयति निकरो हृद्यविद्याधराणाम् ॥२॥ यत्रोत्सर्पच्छिकरकिरणैः शोभयन्नभ्रदेशं, साक्षालक्ष्मीवसतिरनिशं राजते राजलोकः । मेर्वारूढत्रिदशनगरस्पर्धयेवाधिरूढं, शैलाग्रण्यं कनकनिकपस्निग्धभं पञ्चकूटम् ॥ ३॥ यत्रेभ्यानां भवनततयः काश्चिदद्रेस्तटाग्रं, प्राप्ताः काश्चित् पुनरनुपदं सन्ति तासामधस्तात् । काश्चिद् भूमावपि भृशवलत्केतवः कान्तिदृप्ता, निर्जेतुं द्यामिव रुचिमदात् प्रस्थिता निर्व्यवस्थम् ॥ ४ ॥ यत्र क्रीडोपवनपदवीक्रीडतां नागराणां, विष्वक्तर्यत्रिकपरिचयप्रीतिमाविष्करोति । नृत्यत्केकिप्रकरसुभगा मञ्जुगुञ्जविरेफा, वातोद्भूतद्रुमदलततिध्वानवादित्रहृया ॥५॥ श्यामं यस्मिन्नुपलरचितं दन्तिनं मत्तरूपं, पुंरूपाभ्यामुपरि कलितं वीक्ष्य शङ्केऽद्रिशृङ्गे । उत्तीर्यंतृत् पुरमनुपमं स्वर्गलोकादिहेन्द्रोऽद्राक्षीलोकैरिति विरचितं चिह्नमेतच्चकास्ति ॥ ६ ॥ स्थास्नुः शुण्डायुध इव मदात् कुण्डलीकृत्य दन्तौ, कृत्वोत्तानावुपलरचितो यत्र हस्त्यद्रिशृङ्गे । स्वर्ग जेतुं नभसि रभसादारुरुक्षोरमुष्य, द्रङ्गस्येव स्फुटयति महाधीरनासीरभावम् ॥ ७॥ तस्मिन् योधाभिधपुरवरे श्रीमदाचार्यपादादेशान् मासांश्चतुर उषितो यो विनीतो विनेयः।
साधुः सैष प्रहरविगमे भाद्रराकारजन्यां, प्राचीशैलोपरि परिगतं शीतरश्मि ददर्श ॥ ८॥ [इन्दोर्लेखवाहकदूतत्वेन प्रकल्पनम् -]
दृष्ट्वा चैनं स परमगुरुध्यानसंधानलीनस्वान्तः कान्तं तमिति रजनेः स्वागतं व्याजहार । सद्यः साक्षाद् गुरुपदयुगं नन्तुमुत्कण्ठितोऽपि, द्रागेतेन स्थितिपरवशो वन्दनां प्रापयिष्यन् ॥९॥ दिया दृष्टः सुहृदुडुपतेऽस्माभिरद्यातिथिस्त्वं, पीयूषौषैभृशमुपचरन् प्राणिनामीक्षणानि । पुण्यैः प्राच्यैः फलितमतुलैरस्मदीयैरुपेयान्नापुण्यानां नयनविषयं यत्प्रियः स्मर्यमाणः ॥१०॥ देहे गेहे कुशलमतुलं वर्तते कचिदिन्दो !, नीरोगाझी सुभग ! गृहिणी रोहिणी तेऽस्त्यभीष्टा । अन्याः सर्वा अपि सकुशला दक्षजाः सन्ति पत्त्यः, पञ्चार्चिः शं कलयति हृदानन्दनो नन्दनस्ते ॥ ११ ॥ यद्वाऽयं ते स्फुटमनुचितो वार्तवार्तानुयोगस्त्वय्यायत्तां जगति सकले जानतो मे सुखाप्तिम् । मन्तव्योऽयं तदपि सरसः स्नेहसाराञ्चितत्वात् , खादीयः स्यात् कदशनमपि स्नेहधारोपसिक्तम् ॥ १२ ॥ ३॥ क्वाहो शीतोपगतमतनु प्राक्तना) विदेहक्षेत्रे कायं चरमभरतक्षेत्रयाम्यार्धभागः । मार्गोऽतीतः कथमयमियान् कोमलैः स्वच्छपादैः, प्रौढप्रौढैः शिखरिशिखरैर्दन्तुरीभूतदेशः ॥ १३॥ वि० म० ले० १२
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org