________________
८८
विज्ञप्तिलेखसंग्रह
अथ खौद्धत्यपरिहारःश्रीहेमचन्द्रादिकवीश्वराणां पुरः स्फुरेद् यः कवितामदो नः। ताय॑स्य पक्षौ समुदीक्ष्य साक्षात् स मक्षिकाणामिव पक्षगर्वः ॥ २३८ ॥ तैस्तैः सुधीभिर्बहुभिः स्तुतान् वः स्तोतुं गुणान् कोऽहमतीव मुग्धः । अस्पष्टमप्यभकवाक्यजालं प्रियं गुरूणामिति तु प्रयत्नः ॥ २३९ ॥ स्तोतुं प्रवृत्ता भवतः कवीन्द्रास्ततोऽहमप्यत्र विधौ समुत्कः । निरीक्ष्य पोताँस्तरतः पयोधौ तत्रोत्सुकं नो किमु शुष्कपर्णम् ? ॥ २४० ॥ भवद्गुणौघाम्बुनिधौ निमग्नाः कवीश्वराश्चित्रमहं तु तीर्णः । सम्बन्धगन्धादिति युक्तमेव यथाम्बुधेर्वारिणि काष्ठखण्डः ॥ २४१॥ मुनीन्द्र ! यत्नो रचितो मयाऽयं प्रमोदपूर्णान् गुणिनो निरीक्ष्य । बालैः स्वबुद्ध्या रचितासु रेणुमयीषु लीलालयचातुरीषु ॥ २४२ ॥ अज्ञानभावेन यदत्र चर्च्य 'आनन्दलेखे' लिखितं मया यत् । शोध्यं च बोध्यं च तदात्मबुद्ध्या बुधा ! मयाऽयं रचितोऽञ्जलिर्वः ॥ २४३॥ पर्याप्तमभ्यर्थनयाऽथवाऽऽर्या यदा किल प्रोज्ज्वलनस्वभावाः।
अभ्यर्थितौ केन च पुष्पदन्तौ तौ शारदौ चोक्षयितुं सरांसि ? ॥ २४४ ॥ गुरुः प्रसन्नो यदि सौम्यदृष्टिः क्रूरग्रहैर्वक्रतमैः किमन्यैः। जङ्घन्यतेऽसौ किल दोपलक्षं ज्योतिर्विदामप्ययमेव पन्थाः॥४५ ततः प्रसन्नैर्गुरुभिर्विधाय शिशौ कृपालेशमनीदृशेऽपि । स्मर्यः कदाचित समये जनोऽयं विशेषतःश्रीजिनदर्शनादौ ॥४६ मनो मदीयं तु यथा सरोजे सौरभ्यमौन्नत्यमिवाऽमराद्रौ । दुग्धे जलं शैत्यमिवाप्सु वह्नावुष्णत्वमिन्दाविव कौमुदी च ॥४७
माधुर्यमिक्षाविव वः क्रमाब्जे तथा गतं तन्मयतां ततः किम् । लिखामि यच्छ्रीगुरुनामधेयग्राहं नमाम्याहतपादपद्मान् ॥ २४८॥ - युग्मम् । संवत्सरे वादिनिधानचन्द्रकलामिते (१६९४) बाहुलमासि दिव्ये ।
मनोरथो मे फलिनस्तु धन्यत्रयोदशीसञ्जतिथौ बभूव ॥ २४९ ॥ यावद् धरित्रीफलके सुमेरुः शङ्कुर्निखातो दिनमानकारी। प्रतिष्ठितस्तावदयं प्रबन्धो जीयात् प्रबुद्धश्रवणाध्वनीनः ॥५०
कल्याणमारोग्यमभीष्टसिद्धिः समृद्धिलब्धिश्च गुणप्रसिद्धिः । महोन्नतिः कीर्तिततिः प्रतीतिः सद्धेऽनघे स्ताद विततेति भद्रम् ॥ २५१॥ पूज्याहद्भक्तभट्टारकततितरुणीचन्द्रकान् भव्यलेखा
राध्यश्रीश्रीशसुश्रीनतपद 'विजयानन्द' सूरीशपूज्यान् । ध्येयप्राधान्यधन्यांस्तपगणनृपतीन् व्यक्तविज्ञप्तिपत्रं
नामस्मृत्येकतानः शिशुरिति नगरे स्तम्भतीर्थेऽडुढौकत् ॥ २५२ ॥ " इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्याय -श्रीविनयविजयगणिना भट्टारकश्रीविजया
णन्दसूरीश्वराख्यश्रीपरमगुरूणां प्राभृतीकृते आनन्दलेखप्रबन्धे लेखप्रशंसा-सुजनदुर्जनखरूपव्यावर्णनरूपो दृष्टान्तासचमत्कारनामा पञ्चमोऽधिकारः सम्पूर्णः ॥ छ ।
-~॥ सम्पूर्णश्चायमानन्दलेखप्रबन्धः ॥--
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org