________________
आनन्दलेखप्रबन्धनामकविज्ञप्तिपत्रम्
शोक - प्रमोद प्रभवौ च लेखौ यो धर्मलेखः स च सप्तधा स्यात् । तत्रादिमो यो व्यवहारिलोकैः संलिख्यते कामिजनैर्द्वितीयः ॥ २२९ ॥ भवेत् तृतीयः स्वजनैर्मिथो यस्तुर्यो विपक्षक्षितिनायकाभ्याम् । स पञ्चमो यः स्वजनार्त्तिशंसी षष्ठो विवाहादिषु लिख्यते यः ॥ २२२ ॥
अयं पुनः सप्तम एव लेखो लेखेषु सर्वेष्वपि सार्वभौमः । पदे पदे पुण्यफलोदयेन यतः परत्रेह च शर्मसिद्धिः॥२२३॥ खस्तीति बीजं जिनवर्णनं च मूलं पुरीवर्णनमेव शाखाः । पुष्पाण्युदन्ता गुरुवर्णनं च फलं लसल्लेखसुरद्रुमेऽस्मिन् ॥२२४॥ लेखो हि प्रायः पिशुनेभ्यो रक्षणीयः सज्जनेभ्यश्च दर्शनीय इति तयोः स्वरूपलेशो लिख्यते -
सतां स्वभावोऽयमिह प्रमोदवन्तो निरीक्ष्यान्यकवेः कवित्वम् ।
इन्दुः किमक्ष्णां भवति स्वकीयो हर्षोऽतिद्येष्विति तन्निसर्गः ॥ २२५ ॥ ते वल्लभाः स्युर्भुवनेषु सन्तः कुर्वन्ति येऽन्यस्य गुणप्रकाशम् । केषामभीष्टः स समीरणो नो यः सौरभं सौमनसं व्यनक्ति ॥ २२६ ॥ ब्रवीति दोषानथ योऽन्यदीयान् दुष्टः स शिष्टोऽपि भवेदनिष्टः । दुर्गन्धलेशं प्रथयन् समीरो द्विष्टो न जीवातुरपीह विश्वे ॥ २२७ ॥ खलः कवित्वस्य विभाव्य दोषान् यथा प्रसन्नो न तथा गुणौघान् । लभेत नो सुन्दरमन्दिरेण मुदं यथाहिर्बिलवीक्षणेन ॥ २२८ ॥ किं दुर्जनानामिह याति येऽन्यश्लोकानुपश्रुत्य विषादिनः स्युः । गृह्णाति वार्कः किमु कौशिकानामान्ध्यं यदस्योदय एव तेषाम् ॥ २२९ ॥ प्रागेव विद्वेषतमोनिरुद्धबुद्धीक्षणाः किं परिभावयन्ति ।
गुणान् कवित्वस्य यथा दिवान्धो वेवेक्ति भानोर्ननु कौशिकः किम् ॥ २३० ॥ कवित्वरत्नस्य विशुद्धिभाजो गुणप्रकर्षः खलसङ्गतः स्यात् । दृष्टात्मदर्श भसितानुलेपात् शुद्धिस्तथाक्ष्णोः किमु कज्जलेन ॥ २३१ ॥ निर्दूषणे शालिनि काव्यरत्ने कुर्यादनार्योऽपि न े दुर्जनः किम् । सुवर्णपर्यङ्कतलेऽतिसान्द्रे क्व मत्कुणौघो लभते प्रवेशम् ॥ २३२ ॥ कदाप्यनाभोगकृतः कवित्वे दोषो भवेत् सोऽपि गुणो गरीयान् । विनाऽमुना स्यात् कतमः प्रकारो मुदे गुणागृह्यधियां खलानाम् ॥ २३३ ॥ स्वचित्तगर्वोद्धुरतोच्छ्रितेन निस्सारमेकेन पदेन मत्ताः । दिधीर्षवो ये कविताभ्रभारं तेभ्यो नमस्टिट्टिभसोदरेभ्यः ॥ २३४ ॥ केचिच्चिदंशाधिगमेन मत्ताः खलास्तदन्ये प्रभुतामदात्ताः ।
Jain Education International
शेषास्त्वविज्ञाबत कः कवीनां श्रमक्रमं द्रक्ष्यति लब्धलक्ष्यः ? ॥ २३५ ॥ किमेतया प्रस्तुतचिन्तया वा सन्त्येव केचित् सरलाः पुमांसः । ज्ञानप्रभुत्वोत्तमतात्रिवेणीसङ्गोपमा भूषित भूमिभागाः ॥ २३६ ॥ इति स्वरूपं खलसज्जनानां मया निबद्धं न कुतोऽपि हेतोः । कादम्बरी-चम्पुकथादिकारैः प्राच्यैर्बुधैर्बद्धमतो न्यदर्शि ॥ २३७ ॥
१ प्र० 'किल' ।
२ प्र० 'sपि हि दुर्जनः' ।
For Private & Personal Use Only
८७
10
15
20
25
30
www.jainelibrary.org