________________
विज्ञप्तिलेखसंग्रह
तथा च - सुदर्शनाः सारसुधागिरो ये ऋद्ध्यब्जिनीनर्ममरालकल्पाः । शरत्समानाः कुशलेन्दुदीप्तौ जगत्रयीशान्तिकृतावधानाः ॥ २०८ ॥ सुमेरुधीराः सशिवामरौघैर्नता नयाढ्या विमलाशयाश्च । ज्येष्ठश्रियः सद्गतिहस्तिमल्लाः कुमारशौर्याः सुकुमारदेहाः ॥ २०९ ॥ [ माणिक्यदीप्ताः कृतमुक्तिवान्छाः, धर्मोत्तमाम्भोजशिलीमुखाश्च + ] क्षेमवृद्ध कुशला विवेकचन्द्रोज्ज्वलाः प्रीतियुता दयायाम् । चारित्ररत्ने कृतयत्नयोगाः कल्याणलक्ष्मीकुमुदेन्दुकान्ताः ॥ २९० ॥ तैस्तातपादैर्गणशीतपादैर्गतप्रमादैर्घनधीरनादैः । स्वाङ्गान्तिषत्कौशलशालिपुत्रप्रसादनैरेष शिशुः प्रमोद्यः ॥ २११ ॥ त्रिधा त्रिसायं प्रणतिर्मदीयाऽवधारणीया महनीयपादैः ।
सा चानुपूर्वा व्रतिनां प्रसाद्या श्रीपूज्यसेवाविधिपावितानाम् ॥ २१२ ॥ तत्रापि - सुदर्शनेत्याद्यकवित्वमध्ये विशेषणैः सूचितनामकानाम् ।
बुधाग्रणीनां परयोर्द्वयोश्च संसूचितानां गणिनां मुनीनाम् ॥ २९३ ॥ किञ्च - समानकनकच्छटाप्रकटकान्तिदेवेन्दुभिर्नताञ् जिनवचोऽन्वितान् विनतवार्द्धिनेमीश्वरान् । इमैर्गुरुविशेषणैरभिहितान्वयाः साधवो, नमन्ति गणभूपतीन् नमति चाऽत्र सङ्घोऽखिलः ॥ २१४ ॥
15
८६
10
25
30
इति महोपाध्याय श्रीकीर्तिविजयगणिशिष्योपाध्याय -श्रीविनयविजयगणिना भट्टारकश्रीविजयाणन्दसूरीश्वराख्यश्रीपरमगुरूणां प्राभृतीकृते आनन्दलेखनाम्नि लेखप्रबन्धे 'तैस्तातपादैः' इत्याद्यवसरप्राप्तश्रीगुरुवर्णनरूपः स्वर-व्यञ्जन-स्थान-गति - निमन्त्रण - च्युतगुप्तादिशेषचित्रचमत्कारनामा चतुर्थोऽधिकारः ॥
॥ दृष्टान्तचमत्कारनामा पञ्चमोऽधिकारः ॥
अथ लेखप्रशंसादूरेऽप्यदूरे इव यो जनानां ददाति मित्रप्रियसङ्गसौख्यम् । मनोविनोदी विरहापनोदी लेखस्तु साक्षाद् वरलेख एव ॥ २१५ ॥ स श्यामवर्णो रसपूरपूर्णः सुहृन्मनः केकिकृतप्रमोदः । चिन्तातपक्लान्तिनिराकरिष्णुः कथं न लेखो जलदोपमानः १ ॥ २१६ ॥ स्वगोविलासैः प्रियचित्तपद्मान् विकासयंश्च भ्रमणस्वभावः । असंशयं संशयतामसन्नो लेखः कथं सूर्यसहोदरो नो १ ॥ २१७ ॥ अनेकवर्णोत्तमरत्नपङ्क्तिविराजितो भूरिसदर्थशाली । मुद्राञ्चितः स्वादररक्षणीयो लेखोऽश्नुते कोशगृहस्य लक्ष्मीम् ॥ २९८ ॥ भूपालवद् यो व्यवहारचर्यां प्रवर्त्तयेत् सद्गुरुवच्च शास्ति । विश्रम्भपात्रं प्रियमित्रवच्च लेखः कथं सर्वगुणास्पदं नो ? ॥ २१९ ॥ लेखस्य सप्त प्रभेदाःस सप्तधा लेख उदीरितो ज्ञैः पृथक्-पृथक्कार्यफलोपदर्शी ।
(२)
(३)
व्यापारलेखः” कुसुमेषुलेखः " स्नेहस्य लेखः " स्फुटरोषलेखः ॥ २२० ॥
+ एतत् पयार्द्धं प्रत्यन्तरे नास्ति । + 'प्रत्यन्तरे एतादृशः उत्तरार्द्ध: - 'बुधाग्रणीनामपरेषु तेषु त्रिष्वाहितानां गणिनां मुनीनाम् ॥'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org