Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
आनन्लेखप्रबन्धनामकविज्ञप्तिपत्रम्
आस्यमस्य कमलादमलाक्षं चन्द्रपङ्कजरुचामभिभूत्या । यस्य शस्यगुणमत्र च कर्म सक्रियापदमुदीरितमेव ॥ १८८॥ (- गुप्तक्रियाकर्मकम्) यस्सुमाशुगशरैरपीडितस्तर्जिताखिलसुरासुरशनैः । पण्डितैर्नरवरैरधुनोक्तं शेषवाच्यमवधेहि सुबुद्धे ! ॥ १८९॥ (-गुप्ताव्ययक्रियाकम् ) प्रातरेव परमं पुरुषेषु यं नमस्यति नमस्यपदाब्जम् ।
स क्षणेन कुशलाकलय त्वं युज्यते यदिह तत्तु मयोक्तम् ॥ १९ ॥ (-गुप्तान्वयम्) यस्यास्यकान्तेः किमसि प्रतिष्ठां लिप्सुर्वराकाऽनिशमुज्ज्वलायाः। त्यजेतरेच्छां सुखमद्धि भिक्षां बुधात्र सम्बोधनमस्ति गूढम् ॥ १९१॥ (-गुप्तामन्त्रणम्) किमयंते दक्ष ! 'मृषोद्यमेन सा या न स्थिरेति प्रथिता भुवि श्रीः। प्रणम्य यं संसृतिवारिधि तर व्याप्तं बुधास्मिन् करणं सुगुप्तम् ॥ १९२॥ (-गुप्तकरणम् ) महायशोभासुररम्यमूर्तेर्येनानतौ यस्य पदौ जनेन । सत्याकृतिस्तेन शिवोद्भवाय दत्तात्र गुप्तं बुध ! सम्प्रदानम् ॥ १९३॥ (-गुप्तसम्प्रदानम्) मा गा विषादं भज सुप्रसादमानन्दनं पश्य तदाननेन्दुम् । मिथ्यात्वरूपाद् विरमाऽतिनिन्द्यादत्रास्त्यपादानपदं पदान्तः॥ १९४ ॥ (- गुप्तापादानम्)
कस्य भाग्यभरितस्य तनूजा यस्य चित्तमहरत् स्वरसेन । शीलसारघनसारसुगन्धेरुत्तरं कथितमेव वयस्य ! ॥ १९५॥
(-गुप्तसम्बन्धम्) रे पुष्पायुध ! माऽऽयुधं चपलय श्रान्ति वृथा मा कृथाः, पापव्यापमपाकुरुष्व कुमते ! किं वा छलेनाऽमुना । रे दूरीभव मोह ! सन्ततषावादिखभावं त्यज, ध्वस्ताज्ञानतमोभरेऽत्र विबुधाधारं सुगुप्तं वद ॥१९६॥(- गुप्ताधारम् ) 'ततां तान्ताततिं तात! ततोऽतीततुतेऽतति । तुतात्तांतात्ततेऽन्तान्तः तेति तत्तुतुती तत॥१९७॥ (- एकव्यञ्जनचित्रम्) नमामीनमम 'मानाममानमुनिमाननम् । नामुं नाम नमेन्नोना नुन्नामो नूनमन्ननु ॥ १९८॥ (-द्विव्यञ्जनचित्रम् ) 20 सदाकारानुहारा च महाभुजगभूषणा । स्तौति निन्दति वा यं यः सुन्दरी तस्य मन्दिरे ॥१९९॥ (-बिन्दुच्युतकम्) कमलकलकरवदन! सततहतमदमदन!। नमदमर! गतसमर! जय सजय! गणधर!॥२०॥ (-एकखरचित्रम्)
सदा सदानन्दनिधानदानं तनोतु नेता सततं नतानाम् । तदासनासीनसनानुनीत नीतेनिताधीतिधनाधुनेन ॥ २०१॥ (-दन्त्यस्थानचित्रम्) सिद्धान्तवारां निधिमृद्धशुद्धिं लब्ध्या समानं गुरुगौतमेन ।
महेम हेमाम्बुजगर्भगौरदेहं मुदे हन्त मुनीनमेनम् ॥ २०२॥ (-अतालव्यव्यञ्जनचित्रम्) विसारि सारसे सारं संसारोरुसुराश्रये । सुरेश्वरहरि सेवे हीरसूरिशिशोः शयम् ॥ २०३॥ (-अवर्ग्यचित्रम् )
मदनमानधनापनुदं दमानुपमचित्तमनेकपगामिनम् ।
भजत भो जनताः! कठिनापदाभिदमखण्डगुणं गणभूपतिम् ॥ २०४॥ (-अनवर्ग्यचित्रम्) श्रीवन्तनन्दनं वन्दे शान्तरां रुचिसुन्दरम् । दयाविधिधनं मेनाभीवमंशुदिवं विशाम् ॥ २०५॥. श्रीवंशांधितनारावं रविवन्दितमं नमः । विदेदः सुधनं भीरु यादःशावशुचिनदम् ॥२०६॥ (- द्वाभ्यां तुरगपदम्)
___ इत्थमनेकविवेकिजनैयश्चित्रचमत्कृतकोविदचित्तैः ।।
वाङ्मनसाविलतापगमाय पूजितपादयुगाः सुकवित्वैः ॥ २०७॥ प्र. 'भृशोद्यमेन'। २ प्र० 'मित्र'। ३ प्र० 'तैता'। ४ प्र. ममानना'। ५प्र० "नेकपमानिनम्। ६ प्र. "श्चित्तचमत्कृतिको'।
Jain Education Intemational
For Private & Personal Use Only
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238