Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
विज्ञप्तित्रिवेणि
प्राग्वन्नमस्कृतवन्तो भगवन्तम् । ततोऽपि देवलादिदर्शिताध्वानश्चमत्कृतचेतसो विगलितरेफसः कवलितालस्याः प्रमादातिरेकादुज्जृम्भमाणास्या बाह्याभ्यन्तररज शिशमयिषयेव नयनेभ्यो हर्षाश्रुधारा वर्षन्तस्तृतीयभवनगान् युगादिजिनपादानन्ववन्दिष्महि पूर्वन्यायेनेति ।
[ कङ्गदकमहादुर्गस्थयुगादिजिनदर्शन - वन्दनस्तवनादिवर्णना - ] 5८. ततश्च द्वितीयेऽह्नि कङ्गदकमहादुर्गमध्ये माधववक्षोलङ्कारकौस्तुभायमानानादियुगीनश्रीयुगादिजिननिनंसयोत्पिञ्जलितहृदयान्तरालाः, प्रभवद्धर्षाश्रुप्रणालाः, क्रमेण नमोऽङ्गणलम्बिकपिशीर्षमालाविलसत्सप्तशालालीनसप्तप्रतोलीद्वाराणि सप्तसुखानीवाक्रामन्तः, वर्णकम्बाकरेण प्राक्कथंचिदावर्जितेन महर्द्धिना मौलभूपालप्रतिशरीरभूतेन हेरम्बाख्यप्रतिहारेण सोपानसहस्रसङ्कलं राजपथं परिचाय्यमानाः, पदे पदे जायमाने दानोत्सवे नृपकारितमानोत्सवे च प्रकाशमाने राजाङ्गरगद्वाद्यनिनादे उच्छलद्धवलमङ्गलध्वनिभिः प्रतिशब्द-" मुखरीक्रियमाणेषु सप्तप्राकारेष्विव, नृपतिसौधमध्येषु वीक्षणापन्नकुतूह लिराजलोकैः पाणिन्धमतां नीयमानेषु, पृथुष्वपि पथिषु निरङ्कुशैरपि दौवारिकैश्चानवारिताः, अनवरतप्रणयपरिचितमिव राजसमाजजनसमूहमूहमानाः श्रीनाभेयं प्रीत्या प्रणिपेतिवांसः।
तदा च-तत्र वृद्धास्तत्तीर्थैतिह्यमित्थमाहुः
यथाहि-"इदं किल कमनीयकनककुम्भोपशोभितोत्तुङ्गशृङ्गरङ्गत्प्रासादमयं महातीर्थ । विजयिनि भगवति श्रीनेमिजिनपतौ श्रीसुशर्मभूमीभुजा संस्थापितम् , तदिदं चाघटितमटङ्कितं स्वयंभूतमिवानादियुगीनं श्रीमद्युगादिदेवबिम्बमचिन्त्यचिन्तामणिमवृतकल्पपादपममितमाहात्म्यमनन्तातिशयं जानन्तु । इयं च भगवच्चरणारविन्दमकरन्दचञ्चच्चञ्चरीककुटुम्बिनी श्रीमदम्बिका, यस्याः किमप्यसामान्यमतिशयं व्यावर्णयन्ति सन्तः। अस्या हि प्रक्षालाम्भः कुम्भसहस्रप्रमाणमपि जगद्गुरोस्तावत्प्रमाणेन लानाम्भसा सह तदाशा- 20 तनभीत्येव तुल्यस्थानस्थितमपि नैकीभवति । प्रत्यक्षं चाधुनापीदम् । अथवाऽसम्भावितकीटिकाप्रवेशनिर्गमे लघुन्यप्यमुष्मिन् गर्भागारे कृतकपाटसम्पुटे भूयोऽपि स्नात्रतोयं सङ्घदरन्तदरितमिव क्षणादकस्मादृर्द्धशोषं शुष्यति । इह हि कृतं स्तोत्रादिपूजाद्य सत्कृत्यं सत्क्षेत्रे निहितं बीजमिवैकान्तेनाविसंवादि फलं स्यादित्यागमः ।” तदिदमुत्कण्ठितस्याऽऽह्वानं घटितसुवर्णे वर्णिकाधानमित्याभाव्य खवाग्वल्ले प्रकामफलभूतामिमां स्तुतिमित्थ- 25 माविरबीभवाम ।
तद्यथाजगजीवनं पावनं यस्य वाक्यं महोक्षध्वजं चङ्गगाङ्गेयकायम् । तिरस्कृत्य कर्मस्थितं जन्तुतातं श्रये तं मतिश्रीकृते तीर्थराजम् ॥ ६८॥ गलन्त्याशु पापान्यनन्तानि तानि प्रसर्पन्त्यगण्या मुदश्वावदाताः । महासिद्धिरायाति कीर्तिश्चकास्ति प्रभो ! त्वां नमस्कुर्वतां शान्तमूर्तिम् ॥ ६९ ॥ छेकः कष्टोच्छेदने दीप्तिभानुभक्तस्यातुच्छेष्टदो भीतिभेदी ।
युक्त्या युक्तः स्वागमागाधवाक्यः सिद्ध्यै रोद्धा युग्मिधर्म क्षतागाः ॥ ७० ॥ वि०म०ले०८
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238