Book Title: Vignapti Lekh Sangraha Part 01
Author(s): Jinvijay
Publisher: Singhi Jain Shastra Shiksha Pith Mumbai
View full book text
________________
विज्ञप्तित्रिवेणि
अपि चकापि-जम्बीरदाडिमाम्राणि नारङ्गबदराणि च । पाकिमानि विलोक्य स्यालोला कस्य न लोलुपा ? ॥ ५३॥
फलानां कुसुमानां च कालाकालानपेक्षया । प्रसूतिः परमा दृष्टा तत्तीर्थातिशयादिव ॥ ५४॥ खजूरीदाडिमीद्राक्षारम्भाभम्भायिकादयः । छायां कुर्वन्ति सङ्घस्य खाद्यं च ददते तथा ॥ ५५ ॥ विनापि जालदी वृष्टिं निर्झरौघाः पदे पदे । मन्ये तैर्गिरयः सङ्घातिथ्यं कर्तुमुपस्थिताः ॥ ५६ ॥
अपि चवहज्झरे चूतमहीरुहस्तले विश्रामयन् पान्थजनः पदे पदे । फलानि मिष्टानि यथेच्छमाहरन् खगेहसाध्यं सुखमश्नुते क्षणम् ॥ ५७ ॥
एकतश्चउदुम्बरवटप्लक्षाः परोलक्षाः पुरः स्थिताः । विश्रामस्थानमा नां सज्जना इव मानिताः ॥ ५८॥ श्रीफलाश्च फलैः स्वीयैर्निजपादतलस्थितम् । टाञ्चक्यभग्नशिरसं त्रासयन्ति खला इव ॥ ५९॥ अस्पृष्टमध्याः सूरस्य करैः क्वापि प्रसारिभिः । बिभ्रते कुलनारीणामाचारं किल कन्दराः ॥ ६॥
अपि चअभयामलकीमुख्यवृक्षावाप्तफलैः क्वचित् । गान्धिकापणनामापि शङ्के विस्मारितं जनैः ॥ ६१ ॥
अपरं चपाद्याः कर्करिकाः क्वापि पत्सुखा वालुकाः क्वचित् । दृषत्खण्डाश्च तीक्ष्णाग्राः स्वोचितं चलतां व्यधुः ॥६२॥ क्वापि समा विषमा वा क्वापि नीचैस्तथोन्नताः । नैकरूपा भुवः शैले दशा इव भवेऽङ्गिनाम् ॥ ६३॥ कापीक्षुशाकटस्तोमः तिल्यं भागीणमेकशः । कौद्रवीणं च मौद्गीनं शालेयं क्वापि शाल्यते ॥ ६४ ॥
तदित्थं स्थाने स्थाने नवीना नवीना वनराजीः परिचिन्वन्तस्तदीयाभिः पिच्छलाभिश्छायाभिस्तपनातपप्रसरागोचरीभवन्तः पर्वतीयान् जनानिव तदाचारान् शुचीन् साक्षात् ७ कर्वन्तः, अतिभीष्मग्रीष्मर्तमपि तथाविधदेशस्वाभाव्याच्छिशिरतमिव मन्वानाः. सखेन विपाशातटिनीं भूयोऽप्युत्तीर्य, पदे पदे समृद्धान् महाग्रामान सम्भावयन्तो दर्शनेन तदधीशांश्वाभिमुखमायातानुचितालापैश्च रञ्जयन्तः क्रमेण पातालगङ्गातटमन्वसाम ।
अपि चयस्यां हि जलयत्रेषु दृष्ट्वा सक्त्वादिपेषणम् । के नाम न प्रशंसन्ति दाक्ष्यं पर्वतवासिनाम् ॥ ६५॥ ५ पानीयमतिमुक्तानि जानुदनाऽम्बुवाहिता । सान्द्रो ध्वनिः प्रवाहस्योन्निद्रयेद् दूरगानपि ॥ ६६ ॥
तां च तथाभूतामनिहितेष्वपि खयोगसन्निहितेषु सुश्लिष्टश्लक्ष्णतलेषु निश्चलेषु गण्डशैलेषु परमयतनया कापि पादन्यासमुपकल्पयन्तो निरायासमुत्तीर्णाः ।
[नगरकोट्टपुरप्राप्ति - तदन्तःकृतप्रवेशवर्णनादि-] ६७. ततश्च पुनरकुण्ठानि गिरिशिरांसि त्वरितपादचारेण कुण्ठयन्त इव कापि तुङ्गतरगिरि- 30 शृङ्गमधिरूढा हेमकुम्भमालोपशोभितप्रभूतप्रासादपतिदर्शनीयं विविधस्थानमनोरम नेत्रानन्दामृतप्रपोपमानं श्रीमन्नगरकोद्दापरपर्यायं श्रीसुशर्मपुरमहातीर्थं दृग्गोचरीकृतवन्तः।
Jain Education Intemational
lain Education Intermational
For Private & Personal Use Only
www.jainelibrary.org
For Private & Personal Use Only

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238