________________
(१०) वसंतराजशाकुने प्रथमो वर्गः । तेन दुःखदमतिप्रयोजनं सत्वरं परिहरेदुपागतम् ॥ बुद्धिमाञ्छकुनकोविदो जनः सन्निपत्य सुखदं समाश्रयेत् ॥ १५॥ नन्ववश्यमुपभुज्यते नृभिः प्राक्तनस्य निजकर्मणः फलम्। किं ततः शकुनसंविदा जनो यन्न दैवमतिवर्तितुं क्षमः ॥१६॥ नैतदेवमिह येन देहिनां पूर्वकर्मविहितं कुतोपि वा । देशकालवशतो विपच्यते भुज्यते व्यवहितं कथं नु तत् ॥ १७ ॥
॥ टीका॥
तेनेति ॥पूर्वोक्तप्रकारेण दुःखदमतिप्रयोजन अतिशयितं कार्यमुपागतमिति फलोन्मुखमपि सत्वरं शीघ्रं परिहरेत् बुद्धिमान् शकुनकोविद इति शकुनेष्वर्थाच्छकुनशास्त्रेषु कोविदः पंडितः । अतएव महान् शाकुनिकः संनिपत्येति सम्यक्प्रकारेण स्थित्वा सुखदं कार्य समाश्रयेत्सम्यक्तया आश्रयेत्स्वीकुर्यादित्यर्थः ॥ १५॥ नन्विति ननु चर्चकः प्राह । प्राक्तनस्य पुरा कृतस्य निजकर्मणः फलं नृभिरवश्यमुपभुज्यते। तत स्तेन कारणेनाशकुनसंविदेति शकुनज्ञानेन किमिति आक्षेपे किं स्यादित्यर्थः। यद्यस्मात्कारणाज्जनो मनुष्यः दैवं भावि शुभाशुभमतिवर्तितुमुल्लंघयितुं न क्षमः समर्थः ॥ १६ ॥ नैतदेवमिति ॥ एतत्पूर्वोक्तमेवं न यथा त्वयोक्तं
॥ भाषा ।।
त ताकू कर्मको फल प्रकाश करैहै ॥ १४ ॥ तेनेति ॥ पूर्व कह्यो जो प्रकार ता करके दुःखको देबेवारो अधिक कार्यहै और वो कार्यहुयो चाहेहैं तोभी शीघ्रही मिटजाय वा औरतूं और होजाय तब बुद्धिमान् होय शकुनशास्त्रनमें कोविद अर्थात् पंडित होय वो शकुनमें स्थित होय करके सुखको देवेवारो कार्य ताय स्वीकार करे ॥ १५ ॥ नन्विति ॥ दूसरे चर्चा करते वाले कहैहैं पूर्वजन्ममें किया जो निजकर्म ताको फल मनुष्यनकरके अवश्य भोगवेके योग्यहै, ताकारण करके शकुनको जो ज्ञान जाननो ताकरके कहा होयहै ये आक्षेप कियो तब कहैहैं या कारणते जन जो मनुष्यहै सो दैव जो शुभ अशुभकर्म ताय उल्लंघन करवेकू नहीं योग्य है नहीं समर्थ है ॥ १६ ॥ नैतदेवमिति ॥ जैसे ये पूर्व तुमने कह्यो तैसो नहीं है, तामें का
Aho.! Shrutgyanam