Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagarsun Gyarmandir
www.kabatirth.org
मूर्खाणां सहस्त्रात मूर्खसहस्रं परित्यज्यापि । ल्यब्लोपे पञ्चमी । पण्डितं विमृश्यकारिणमेकमिच्छसि कच्चित् । पण्डितपारिग्रहे हेतुमाह पण्डित इति । अर्थकृच्छ्रेषु कार्यसङ्कटेषु (पाठान्तरम् । अर्थकृच्छ्रेषु अर्थसङ्कटेषु) महनिःश्रेयसं महदैश्वर्य प्रापयेदित्यर्थः। (महनिःश्रेयसम् अव्यभिचारितफल साधनोपायम्) कुर्यात् उपदिशेदित्यर्थः ॥ २३ ॥ एवमन्वयेनोपपाद्य व्यतिरेकमुखेनोपपादयति-सहस्राणीति । उपास्ते आश्रयति, संगृह्णातीत्यर्थः।
कच्चित् सहस्रान मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ॥ २३ ॥ सहस्रा ण्यपि मूर्खाणां यद्युपास्ते महीपतिः। अथवाप्ययुतान्येव नास्ति तेषु सहायता॥ २४॥ एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षणः।राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥२५॥ कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः। जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥ २६ ॥ अमात्यानुपधातीतान् पितृपैतामहा
छुचीन् । श्रेष्ठान श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ २७ ॥ नास्तीत्यस्मात्पूर्व तथापीत्युपस्कार्यम् । सहायता मन्त्रोपायसहायत्वम् ॥ २४॥ पण्डितशब्दार्थ विवृण्वन्नाह-एक इति । मेधाऽस्यास्तीति मेधावी । "अस्मायामेधास्रजोविनिः" इति विनिः । झटिति परोपन्यस्तार्थग्रहणपटुरित्यर्थः। शूरः स्थिखुद्धिः। दक्षः विचारसमर्थः। विचक्षणः अभ्यस्तनीतिशास्त्रः ॥२५॥ कच्चिन्मुख्या इति । मुख्याः भृत्याः महत्सु मुख्येष्वेव कार्येषु वचनपरिवेषणादिषु कञ्चिनियोजिताः न तु हीनेषु कार्येषु । मध्यमाः जात्यादिना मध्यमा भृत्याः मध्यमेष्वेव कार्येषु शय्यासनानयनादिषु नियोजिताः न तूत्तमाधमकायेषु । जघन्याः जात्यादिहीनाः भृत्याः जघन्येष्वेव कार्येषु पाद प्रक्षालनपादुकानयनपादसंवाहनादिषु नियोजिताः नतूत्तममध्यमषु कार्येषु योजिताः कच्चिद, अन्यथा महदेशसं भवेदिति भाव ॥२६॥ भृत्येषूक्तं न्याय ममात्येष्वतिदिशति-अमात्यानिति । उपधातीताच स्वव्यतिरिक्तवर्धाधुपाधिरहितान् । यद्वा सुपरीक्षातीतान् “उपधा सुपरीक्षा स्यात" इति मूर्खाणां सहस्राव अविमृश्यकारिणां सहस्रात पण्डितं सम्पग्विमृश्यकारिणमेकामिच्छसि कश्चित् । पाण्डितग्रहणे हेतुमाह पण्डित इति । अर्थकुच्छ्रेषु अर्थसङ्कटेषु महनिःश्रेयस कुर्यात् महदैश्वर्य प्रापयेदित्यर्थः ॥ २३ ॥ २४ ॥ एक इति । विचक्षणः अभ्यस्तनीतिशास्त्र इत्यर्थः॥ २५ ॥ २५॥ अमात्यानिति । उपधातीतान उपधा परीक्षा " उपधा वा परीक्षा स्यात" इति हलायुधः । अनर्धवस्त्राभरणादिकं पुरुषमुखेन सम्प्रेष्य राजनीप्रेषितमिति प्रबोध्य परीक्षा कुर्वते राजानः,M
For Private And Personal Use Only

Page Navigation
1 ... 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691