Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 649
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वाक्यहेतुं 'यदि भुक्तमिहान्येन देहमन्यस्य गच्छति । दद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् ॥' इत्यादिनास्तिकवाक्यरूपतर्क विगर्हमाणः । मनसि विगईमाणः ॥ ३० ॥३१॥ तेनेति । तेन हेतुना । विप्राः एवमर्थ यथावत् आज्ञाय ज्ञात्वा । एकोदयं सम्प्रतिपद्य ऐककण्ठ्यं प्राप्य सकलं धर्मी सत्यं च धर्म च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च । द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः॥३१॥ तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्राः। धर्म चरन्तः सकलं यथावत् कांक्षन्ति लोका गममप्रमत्ताः ।। ३२॥ निन्दाम्यहं कर्म पितुः कृतं तद्यस्त्वामगृहाद्विषमस्थबुद्धिम् । बुद्ध्यानयेवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ ३३ ॥ यथा हि चोरःस तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि । तस्माद्धि यः शङ्कयतमः प्रजानां न नास्तिकेनाभिमुखो बुधः स्यात् ॥ ३४ ॥ स्ववर्णाश्रमोचितधर्मम् । अप्रमत्ताः सावधानाः यथावच्चरन्तः अनुतिष्ठन्तः लोकागमं स्वर्गादिलोकप्राप्ति कासन्तीति ॥ ३२ ॥ निन्दामीति । विषमस्थबुद्धिम् अवैदिकमार्गनिष्णातबुद्धिम् । अनया बुद्धया चरन्तं चार्वाकमतानुसारिणी बुद्धि परान् प्रत्युपदिश्याचरम्तमित्यर्थः । सुनास्तिकं परलोको नास्तीति बुद्धियुक्तम् । सुशब्देन वैदिकवस्थित्वा चार्वाकमतप्रवर्तक इत्युच्यते । निन्दामि वैदिककर्मभ्यो बहिष्करोमि ॥ ३३ ॥ प्रत्य क्षेकप्रमाणवादी यदि कश्चिद्राज्ये स्यात् सोपि बहिष्करणीय इत्याह-यवेत्यादिना । चोरो यथा निराकरणीयः सः वेदबाह्यत्वेन प्रसिद्धोपि । तथाहि । तथैव । अत्र अस्मिन् लोके । नास्तिकं चार्वाकं तथागतं बुद्धतुल्यं विद्धि तस्माद्यः प्रजानां शङ्कयतमः अवैदिकत्वेन शङ्कनीयः। तेन नास्तिकेन दद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् " इत्यादिनास्तिकवाक्यरूपतर्क विगर्हमाणः ॥ ३० ॥ ३१ ॥ तेनेति । येन त्रिदिवस्य पन्थानमाहुः तेन हेतुना विप्राः पवमर्थ यथावदाज्ञाय श्रुत्वा एकोदयं सम्प्रतिपद्य एकमुखं प्राप्य एकमनसो भूत्वा सकलं धर्म स्ववर्णाश्रमोचितं धर्मम् । अप्रमत्ताः सावधानाः यथावञ्चरन्तः अनुतिष्ठन्तः । लोकागमं परलोकप्राति कांक्षन्तीति योजना ॥ ३२ ॥ निन्दामीति । विषमस्थबुद्धिम् अवैदिकमार्गनिष्णातबुद्धिम् । अनया बुद्ध्या चार्वाकमतानुसारिण्या बुद्ध्या ।। ३३ ॥ प्रत्यक्षैकप्रमाणवादी चार्वाकमतानुसारी जावालिरिव प्रत्यक्षमात्रप्रमाणवादी बुद्धमतावलम्बी राज्ये यदि कश्चित्सम्भवेत्सोपि| निराकरणीय इत्याह-यथाहीति । चोरो यथा निराकरणीयः स वेदबाह्यत्वेन प्रसिद्धा बुद्धः तथैव निराकरणीयः । अत्र अस्मिल्लोके नास्तिकं चार्वाकमपि तथागतं For Private And Personal Use Only

Loading...

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691