Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 689
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ इतीवेति। तैःप्राञ्जलिभिःतपस्विभिः द्विजैः कृतस्वस्त्ययनः कृतमङ्गलाशीर्वचनः ॥ २१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बरा ख्याने अयोध्याकाण्डव्याख्याने एकोनविंशत्युत्तरशततमः सर्गः॥ ११९॥ इतीव तैः प्राञ्जलिभिस्तपस्विभिर्द्विजैः कृतः स्वस्त्ययनः परं तपः। वनं सभार्यः प्रविवेश राघवः सलक्ष्मणः सूर्य्यमिवाभ्रमण्डलम् ॥ २१ ॥ इत्यार्षे श्रीरामायणे श्रीवाल्मीकीये आदिकाव्ये चतुर्विशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ॥ ११९॥ इत्ययोध्याकाण्डः ॥२॥ इत्थं श्रीमच्छठारेश्वरणसरसिजद्वन्द्वनिर्द्वन्द्वसेवानि ताशेषमोहो निरुपमधिषणः कौशिकानां कुलेन्दुः । गोविन्दार्योऽनिवार्यप्रतिकथकगजस्तोम पञ्चास्यरूपष्टीका पीताम्बराख्यां व्यतनुत विपुलां साधुसाकेतकाण्डे ॥ १॥ अयोध्याकाण्डः समाप्तः ॥२॥ इतीवेति इत्तीव पूर्वोक्तमार्गप्रकारेणैव द्विजैः कृतस्वस्त्ययनः कृतमङ्गलाशीर्वादः ॥ २१ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यनारायणतीर्थशिष्य श्रीमहेश्वरतीर्थ विरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायाम् एकोनविंशत्युत्तरशततमः सर्गः ॥ ११९ ॥ महेशतीर्थरचिता रामपादसमर्पिता । टीकात्वयोध्याकाण्डस्य समाप्ता तत्त्वदीपिका || अपाङ्गजनिताशेषसम्पदम्भोधिसम्भवा । लक्ष्मीः स्थितिमती भूयादस्माकं भवने सदा ॥ | स० अनमण्डलम् भाकाशमण्डलं मेघमण्डलं वा । " अभं नमः स्वावलाहकेषु " इति यादवः ॥ २१ ॥ श्रीमदयोध्याकाण्डपठनश्रवणयोः फलम्-जहाण्डपुराणे सप्त चत्वारिंशदुत्तरशततमे अध्यायेकाण्डं द्वितीयं शृण्वन यः प्रोक्तेन नियमेन तु । सोऽग्निसायुज्यमानोति पठनाद्वापि शास्त्रतः॥ अयोध्याकाण्डः समाप्तः॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 687 688 689 690 691