Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kalassagarsuri Gyarmandie
पाटी.अ.का.
सर ११९
अलङ्कुर्विति । अलङ्कुरु आत्मानमिति शेषः॥१०-१२॥ न्यवेदयदिति । प्रीत्या दीयत इति प्रीतिदानम् । कर्मणि ल्युट् । वसनाभरणम्रजां समाहारो वसनाभरणवजम् "द्वन्द्वाच्चुदपहान्तात्समाहारे” इति समासान्तटच् । वसनाभरणम्रजामितिपाठे प्रीतिदानमिति भावे ल्युट् ॥ १३-१५ ॥
अलङ्करु च तावत्त्वं प्रत्यक्षं मम मैथिलि । प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥ १०॥ सा तथा सम लंकृत्य सीता सुरसुतोपमा । प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ ११॥ तथा तु भूषितां सीतां ददर्श वदतां वरः। राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ॥ १२ ॥न्यवेदयत्ततःसर्व सीता रामाय मैथिली । प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥ १३॥ प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः। मैथिल्याः सक्रियां दृष्ट्वा मानु षेपु सुदुर्लभाम् ॥ १४॥ततस्तां शर्वरीप्रीतः पुण्यां शशिनिभाननः। अचितस्तापसैः सिद्धैरुवास रघुनन्दनः॥१५॥ तस्यां राज्यां व्यतीतायामभिषिच्य हुताग्निकान् । आप्पच्छेतां नरव्याघौ तापसान वनगोचरान् ॥ १६॥ तावूचु स्ते वनचरास्तापसा धर्मचारिणः । वनस्य तस्य सञ्चारं राक्षसैः समभिप्लुतम् ॥ १७॥ रक्षांसि पुरुषादानि नाना रूपाणि राघव । वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशनाः॥१८॥ उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारि णम् । अदन्त्यस्मिन् महारण्ये तानिवारय राघव ॥ १९॥ एष पन्था महर्षीणां फलान्याहरतां वने । अनेन तु वनं
दुर्ग गन्तुं राघव ते क्षमम् ॥ २० ॥ वस्यामिति । अभिपिच्य हुताग्निकान स्नात्वा कृतहोमान् ॥ १६॥ ताविति । वनस्य सञ्चारं कन्दमूलफलाद्याहरणार्थ सञ्चारम् । राक्षसैः समभिप्लुतं समाक् उपद्रुतमूचुः ॥ १७ ॥ रक्षासीति । व्याला हिंस्रपशवः । “सप्पहिलपशू व्याली" इत्यमरः॥ १८-२० ॥ रामा०-एष इति । शर्म युक्तम् ॥ २० ॥ अलहरु आत्मानमिति शेषः ॥ १०-१२ ॥ न्यवेदयदिति । प्रीतिदानं प्रीत्या दीयत इति प्रीतिदानम् । कर्मणि ल्युट । वसनाभरणम्रजा समाहारो वसनाभरण|
जम् । वसनाभरणम्रजाम् इति वा पाठः ॥ १३-१६ ॥ वनस्य सबारम् कन्दमूलकलाहरणार्थ सबारम् । राक्षसैस्समभिप्लुतं सम्यगुपद्रुतमित्यूचुारीतिसम्बन्धः VIR१७॥ प्यालाः पशवः । “सदिनपशू प्यालो" इति निघग्दुः ॥ १८ ॥ १९ ॥ एर इति । क्षम युक्तम् ॥२०॥
॥३१॥
For Private And Personal Use Only

Page Navigation
1 ... 686 687 688 689 690 691