Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 681
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir समयानुवर्तिनी आचारानुवर्तिनी । “समयाः शपथाचारकालसिद्धान्तसंविदः" इत्यमरः । भर्तुः सहधर्मचारिणी भवस्व भव । आर्षमात्मनेपदम् । ततः भर्तुः सहधर्मचारिणीत्वेन यशश्च धर्म च कालान्तरानुभाव्यसुखसाधनमदृष्टं च समाप्स्यसि । यद्वा भर्तुः सहधर्मचारिणी एवम्भूता त्वं ततः भर्तुः सहधर्मचारिणीत्वरूपहेतोः यशश्च भवस्व प्रामुहीत्यर्थः । धम च समाप्स्यसि भूप्राप्तावत्मनेपदीति गणपाठात् प्राप्त्यर्थस्य भवतेरात्मनेपदम् । पातिव्रत्यधर्मेण सर्वेः श्लाघां प्राप्य कालान्तरे तजन्यादृष्टद्वारा निरतिशयं श्रेयः समवाप्स्यसीत्यर्थः । इति धर्मचारिण्यनसूया सीतामत्रवीदिति । तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी । भवस्व भर्तुः सहधर्मचारिणी यशश्च धर्म च ततः समा प्यसि॥२७॥इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशोत्तरशततमः सर्गः॥१७॥ सा त्वेवमुक्ता वैदेही त्वनसूयाऽनसूयया। प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥१॥ नैतदाश्चर्यमाया यन्मां त्वमनुभाषसे । विदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः ॥२॥ यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः। अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ ३॥ किंपुनर्यों गुणः श्लाघ्यः सानुक्रोशो जितेन्द्रियः । स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः॥४॥ सम्बन्धः॥२७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने सप्तदशोत्तरशततमः सर्गः ॥ ११७॥ अथ सीतानसूयासंवादोऽष्टादशोत्तरशततमे-सेति । अनसूया असूयारहिता । पातिव्रत्यधर्मोपदेशं गुणत्वेन गृहीतवतीत्यर्थः ॥१॥२॥ यद्यपीति । अद्वैधं द्वैधीभावरहितम् । उपचर्त्तव्यः गुणवत्त्वनिर्गुणत्वभेदं विहाय सम्यगुपचरणीय इत्यर्थः । मातृवत्प्रियः प्रियपरत्वात, पितृवतप्रियः अत्यन्त तदेवमिति । एवं रामं पतिव्रतानां समयानुवर्तिनी पतिपुत्राणामाचारानुवर्तिनी ॥ २७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायाम अयोध्याकाण्डव्याख्यायां सप्तदशोत्तरशततमः सर्गः ॥११७ ॥ १ ॥२॥ यद्यपीति । एष मे भर्ता वृत्तिवर्जितो यद्यपि तथापि अद्वैधं द्वैधीभावरहितं यया तथा उपचर्तव्यः गुणवत्त्वनिर्गुणत्वभेदं विहाय सम्यगुपचरणीय इत्यर्थः ॥ ३ ॥ मातृवर्ती पितृप्रियः इति पाठः । मातृवर्ती मातृशुश्रूषकः । पितृप्रियः पितुः कच For Private And Personal Use Only

Loading...

Page Navigation
1 ... 679 680 681 682 683 684 685 686 687 688 689 690 691