Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kalassagarsun Gyarmande
वा.रा.भू.
तस्येति । कर्पतः "पगवेन कृपति " इति श्रुत्या शोधनं कुवर्तः । क्षेत्रमण्डलं यागोपयोगिक्षेत्रम्, चयनस्थानमित्यर्थः ॥२८॥ मुष्टिविक्षेपतत्परः। टी.अ.को. “या जाता ओषधय इति चतुर्दशभिरोपधीर्वपति" इत्युक्तप्रकारेण ओषधिमुष्टिविकिरणतत्परः ॥ २९ ॥ अनपत्येन च तेन स्नेहान्मामङ्कमारोप्य इयं
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् । श्रूयतामिति चोक्का वै कथयामास तां कथाम् ॥ २६ ॥ मिथिलाधि पतिवीरो जनको नाम धर्मवित् । क्षत्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ २७ ॥ तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् । अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥२८॥ स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः । पांसुकुण्ठितसर्वाङ्गी जनको विस्मितोऽभवत्॥२९॥ अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् । ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः॥३०॥ अन्तरिक्षे च वागुक्ता प्रति माऽमानुषी किल । एवमेतन्नरपते धर्मेण तनया तव ॥३१॥ ततःप्रहृष्टो धर्मात्मा पितामे मिथिलाधिपः। अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥३२॥ दत्ता चास्मीष्टव द्देव्यै ज्येष्ठायै पुण्यकर्मणा । तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ ३३ ॥ पतिसंयोगसुलभं वयो
दृष्ट्वा तु मे पिता । चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥ ३४ ॥ मम तनयेति चोक्त्वा नेहो मयि निपातितः। अङ्कम् उत्सङ्गम् ॥३०॥ मा प्रति मामुद्दिश्य 'एवमेतन्नरपते धर्मेण तनया तव' इति अन्तरिक्षे अमानुषी वागुक्ता। यद्वा वायुक्ताप्रतिमेत्यत्र अप्रतिमेति च्छित्वा वाग्विशेषणतया वा योज्यम् ॥३१॥३२॥ दत्तेति । इष्टवद्देव्यै इच्छावत्यै देव्यै । पुण्यकर्मणा अनवरतयज्ञादिकर्मयुक्तेन जनकेन । सम्भाविता संवद्धितेत्यर्थः॥३३॥ रामानु०-दत्तोत । पुण्यकर्मणेति तृतीयान्तः पाठः । केचिचतुर्यन्त पठित्वा देवीविशेषणं कुर्वन्ति॥३३॥ पतिसंयोगसुलभामिति । पतिसंयोगे सति सुलभम् अन्यथा दुर्लभमित्यर्थः । पतिसंयोगं विना स्थातुमशक्ययौवनावस्थावदित्यर्थः ॥ ३४ ॥ क्षेत्रमण्डलं यागोषयोगिमण्डलाकारं क्षेत्रम् । कर्षतः शोधनार्थ कृषतः ॥ २८ ॥ मुष्टिविक्षेपतत्परः “या जाता ओषधयो देवेभ्यः" इत्यादिमन्त्रोक्तप्रकारेण औषधि मुष्टिविकिरणतत्पर इत्यर्थः ॥ २९ ॥ ३ ॥ अन्तरिक्षेति । अप्रतिमेतिच्छेदः ॥ ३१ ॥ ३२ ॥ इष्टवद्देव्यै पत्न्यै । सम्भाविता संवद्धितेत्यर्थः ॥३३॥ पतिसंयोगसुलभ
IAD
॥३३२॥
For Private And Personal Use Only

Page Navigation
1 ... 682 683 684 685 686 687 688 689 690 691