Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
She Malavi Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
प्रार्थये ॥१४॥१५॥ मन्दविस्मया मन्दस्मितेत्यर्थः ॥१६॥ प्रहर्षे ते तुभ्यं सफउं करोमि करिष्यामि । अङ्गरागः कुङ्कमहरिचन्दनादिः । अनुलेपनं कर्पू रागरुकस्तूरीप्रमुखपरिमलमिलितम् । अनुरूपं त्वद्गात्रानुरूपम् । असंक्किष्टम् अबाधितशोभमित्यर्थः । भर्तारं शोभयिष्यसीत्यन्ते इत्यत्रवीञ्चेत्य
तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया। कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ १६ ॥ सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत् । सफलं च प्रहर्ष ते हन्त सति करोम्यहम् ॥ १७॥ इदं दिव्यं वरं माल्यं वस्त्रमाभर णानि च । अङ्गरागं च वैदेहि महाहै चानुलेपनम् ॥ १८॥ मया दत्तमिदं सीते तव गात्राणि शोभयेत् । अनुरूप मसंक्लिष्टं नित्यमेव भविष्यति ॥ १९॥ अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे। शोभयिष्यसि भर्तारं यथा श्रीविष्णुमव्ययम् ॥ २० ॥ सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २१ ॥ प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥२२॥ तथा सीतामुपासीनामनसूया दृढवता। वचनं प्रष्टुमारेभे काश्चित् प्रियकथामनु ॥२३॥ स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना। राघवेणेति मे सीते कथा श्रुतिमुपागता ॥२४॥ तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि ।
यथानुभूतं कात्स्न्ये न तन्मे त्वं वक्तुमर्हसि ॥२५॥ ध्याहारः। सा अनसूया प्रीततराभवत् शोभयिष्यसीत्यब्रवीच्चेति सबन्धः ॥१७-२२॥ प्रियकथामनु प्रिया कथामुद्दिश्य । सीता प्रष्टुं वचनमारेभेवचनं । वक्तुमारेभे इत्यर्थः ॥ २३ ॥ श्रुतिमुपागता श्रुतिपथं प्राप्ता ॥२४-२७॥ तस्या इति । मन्दविस्मया मन्दस्मितेत्यर्थः ॥ १६ ॥१७॥ अनुलेपनं अङ्गरागम् । अनुलेपनसाधनमङ्गरागमित्यर्थः । यद्वा उद्वर्तनादिना अङ्गानि रञ्जयतीत्यङ्गरागः कुडामचन्दनादिः । अनुलेपनं तु " कर्परागरुकस्तूरीतक्कोलेयंक्षकर्दमम् ।" इत्युक्तयक्षकर्दमवन्महापरिमलद्रव्यसहितमनुलेपनमित्यङ्गरागानुलेपनयोर्मेंदः ॥१८॥ अनुरूपं त्वदात्रानुरूपम् । असंक्लिष्टम् अबाधितमित्यर्थः ॥ १९-२२॥ तथेति । प्रियकथामनु प्रियकथामुद्दिश्य ॥ २३॥ श्रुतिमुपागता श्रवणपथं प्राप्ता ॥२४-२७॥
For Private And Personal Use Only

Page Navigation
1 ... 681 682 683 684 685 686 687 688 689 690 691