Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
प्रधर्षणां तिरस्क्रियाम् ॥ ३५ ॥ अप्लवः नवरहितः ॥ ३६॥ अयोनिजामिति । सदृशम् अभिजनवृतादिना तुल्यम् । अनुरूपं प्रादुर्भूतयौवना प्रतिमरूपलावण्यादिना योग्यम् ॥ ३७ ॥ ३८ ॥ वरुणेन दत्तं वरुणेनातिसहकारिणा दत्तम् ॥ ३९-४१ ॥ भविष्यति न संशय इत्यत्र इतिकरणं
सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । प्रधर्षणमवाप्नोति शकेणापि समो भुवि ॥ ३५॥ तां धर्षणामदूरस्था दृष्ट्वा चात्मनि पार्थिवः। चिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥३६॥ अयोनिजां हि मां ज्ञात्वा नाध्यगच्छ द्विचिन्तयन् । सदृशं चानुरूपं च महीपालः पतिं मम ॥३७॥ तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् । स्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥ ३८॥ महायज्ञे तदा तस्य वरुणेन महात्मना। दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥३९॥ असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥४०॥ तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना । समवाये नरेन्द्राणां पूर्वमामन्य पार्थिवान् ॥ ४१॥ इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः। तस्य मे दुहिता भार्या भविष्यति न संशयः ॥४२॥ तच्च दृष्ट्वा धनुः श्रेष्ठं गौरवा द्विरिसन्निभम् । अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥४३॥ सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः । विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः । लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ॥४४॥ द्रष्टव्यम् ।। ४२ ॥ तोलने चालने ॥ ४३-५०॥ वयः पाणिग्रहणोत्सवयोग्यं वयः ॥ ३४ ॥ जनात कन्याग्रहीततत्सम्बन्धिजनात् । प्रवर्षणां तिरस्क्रिपाम् ॥ ३५ ॥ अदूरस्थां तां धर्षणां समीपस्थां कन्यानिमित्त तिरस्क्रियामित्यर्थः । आत्मनि सन्दश्य ममापि कार्यनिमित्ततिरस्कारो भवेदित्यालोच्येत्यर्थः ॥ ३६॥ सरशम् अभिजनविद्यावृतादिना तुल्यम् । अभिरूपं वय सौन्दर्यादिना योग्यम् ॥३७॥३८॥ महायज्ञ इति । वरुणेन दत्तं देवैः प्रेरितेन वरु गेन दत्तमित्यर्थः ॥३९-४१॥ इदमिति न संशप इति पित्रा व्याहृतमिति पूर्वेण सम्बन्धः ॥ ४२ ॥ तोलने चालने ॥४३॥४४॥
॥
For Private And Personal Use Only

Page Navigation
1 ... 683 684 685 686 687 688 689 690 691