Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Maa Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
वा.रा.भ.
टी.अ.कां.
॥२३७॥
११७
अनामयम् आरोग्यम् । “अनामयं स्यादारोग्यम्" इत्यमरः ॥१८॥ दिष्टया माग्येन धर्ममवेक्षसे पातिव्रत्यधर्ममवधानेन समीक्षसे ॥१९॥ ज्ञातिजन बन्धुजनम् ।मानम् अहङ्कारम् ।वने अवरुद्धं चतुर्दशवर्षाणि वने वस्तव्यमिति पित्रा नियुक्तम् ॥ २०-२२ ॥ सर्वत्रयोग्यं सर्वावस्थासु रक्षणसमर्थम् |
अभिवाद्य च वैदेही तापसी तामनिन्दिताम् । बद्धाञ्जलिपुटा हृष्टा पर्यटच्छदनामयम् ॥ १८॥ ततः सीतां महा भागां दृष्ट्वा तां धर्मचारिणीम् । सान्त्वयन्त्यब्रवीद्धृष्टा दिष्टया धर्ममवेक्षसे ॥ १९ ॥ त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि । अवरुद्धं वने रामं दिष्टया त्वमनुगच्छसि ॥२०॥ नगरस्थो वनस्थो वा पापो वा यदि वा शुभः।यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥२१॥ दुःशीलः कामवृत्तो वा धनवा परिवर्जितः । स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः॥ २२ ॥ नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् । सर्वत्रयोग्य वैदेहि तपःकृतमिवाव्ययम् ॥ २३ ॥ न त्वेनमवगच्छन्ति गुणदोषमसत्त्रियः। कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति याः ॥२४॥ प्राप्नुवन्त्ययशश्चैवधर्मभ्रंशं च मैथिलि । अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥२५॥
त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः। स्त्रियः स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ॥२६॥ |॥२३॥ कामवक्तव्यहृदयाः कामविषयवक्तव्यहृदयाः, कामरूपाभिलापिण्य इति यावत् । यद्धा मदनविधेयहृदयाः। भर्तृनाथाःभर्तृणां नाथभूताः,भर्तु नियामिका इत्यर्थः । यद्वा भर्तारं नाथन्ते याचन्त इति तथा, परपुरुषकासिण्य इत्यर्थः ॥२४-२६॥ अनामयम् आरोग्यम् ॥ १८॥ धर्ममवेक्षसे पातिव्रत्यधर्म समीक्षसे । जातिजनं बन्धुजनम् । मानम् अहङ्कारम् । वने अवरुद्धं वस्तव्यतया पित्रा नियुक्तम् ।
१९-२२॥ नात इति । सर्वत्रयोग्यं सर्वावस्थासु रक्षणसमर्थम् ॥ २३ ॥ कामवक्तव्यहृदयाः मदनविधेयहृदयाः । भर्तनाथाः भर्तृणां नाथभूताः भर्तृनिया मिका इत्यर्थः । यद्वा भर्तारं नाथन्ते याचन्त इति तथा, परपुरुषकाशिण्य इत्यर्थः ॥.२४-२६ ।।
॥३३७
For Private And Personal Use Only

Page Navigation
1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691