Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsuri Gyarmandie
"मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम्" इति तस्यायोध्यानिर्मातृत्वोक्तिः॥६-११॥ विशनोरिति । युवनाश्व एव महातेजाः महातजम्प्रभावेन महाबलधुन्धुनामकासुरमारणाअन्धुमारसंज्ञामलभतेत्यर्थः ॥ १२ ॥ १३ ॥ सुसन्धेरिति । ज्येष्ठस्य ध्रुवसन्धेः । वंशकथनाज्ज्येष्ठस्यैव राज्ये
अनरण्यान्महाबाहुः पृथू राजा बभूव ह । तस्मात् पृथोर्महाराजस्त्रिशङ्करुदपद्यत । स सत्यवचनादीरः सशरीरो दिवङ्गतः ॥ ११॥ त्रिशङ्कोरभवत्सूनुर्धन्धुमारो महायशाः। धुन्धुमारो महातेजा युवनाश्वो व्यजायत ॥१२॥ युवनाश्वसुतः श्रीमान् मान्धाता समपद्यत । मान्धातुस्तु महातेजाः सुसन्धिरुदपद्यत ॥ १३॥ सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धिः प्रसेनजित् । यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदनः ॥ १४ ॥ भरतात्तु महाबाहोरसितो नाम जायत । यस्यैते प्रतिराजान उदपद्यन्तु शत्रवः । हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दवः ॥१५॥ तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासितः। स च शैलवरे रम्ये बभूवाभिरतो मुनिः ॥ १६॥ द्वे चास्य भायें गर्भिण्यौ बभूवतुरिति श्रुतिः। एका गर्भविनाशाय सपत्न्यै सगरं ददौ ॥ १७॥ भार्गवश्यवनो नाम हिमवन्तमुपाश्रितः। तमृषि समुपा गम्य कालिन्दी त्वभ्यवादयत् ॥ १८॥ स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि । पुत्रस्ते भविता देवि महात्मा लोकविश्रुतः। धार्मिकश्च सुशीलश्च वंशकर्ताऽरिसूदनः ॥ १९ ॥ स्थापितत्वमुक्तम् ॥ १४ ॥ भरतादिति । जायतेत्यत्राडभावः अनित्यत्वात् । प्रतिराजानः सामन्ताः शत्रवः । उदपद्यन्त आसन्नित्यर्थः । हयायास्तत्तद्दशोधिपतयः॥ १५॥ तानिति । प्रतिव्यूह्य युद्धं कृत्वा राजा असितः शैलवरे हिमवति रम्ये निर्भयतया स्थातुं योग्ये मुनिः। सन्नभिरतो बभूव अन्यथा तस्मादपि शेलारप्रवासयेयुरिति भावः॥ १६॥ द्वे इति । श्रूयत इति श्रुतिः, जनवाद इत्यर्थः॥ १७॥ १८॥ स इति । उदपद्यन्त अभवन् ॥ १५॥ तास्त्विति । प्रतिष्पा चक्रादिव्यूहं कृत्वा । शैलवरे हिमवति मुनिर्बभूव वानप्रस्थो बभूवेत्यर्थः ॥ १५ ॥ श्रुतिः जनवादः ॥ १७ ॥ उपाश्रितः, अभूदिति शेषः ॥ १८॥१९॥ वि०-धुन्धुमारायुक्नाच इति । विशङ्कसुतो युवनाश्व इत्पन्यन्त्र भूयमाणे कल्पान्तरविषयम् । यहा युवनाश्च एव महातेजःप्रभवत्वाकुन्धुमावसंज्ञा लमते । यहा अन्यत्र त्रिशसुत इत्यस्य तत्पौत्र पर्थः ॥ १२॥
For Private And Personal Use Only

Page Navigation
1 ... 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691