Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
माह-तत इति । यमुनां तीर्त्वा गच्छन्तस्ते सर्वे गङ्गां ददृशुरिति सम्बन्धः ॥ २१-२४ ॥ सारथ इति । निराकारा निर्गतशोभनाकारा ॥ २५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्ड० त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥ पूर्वसर्गान्तिमश्लोकोक्तं विस्तरेण
शृङ्गिवेरपुराद्भूयस्त्वयोध्यां संददर्श ह ॥ २३ ॥ अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् । भरतो दुःख सन्तप्तः सारथिं चेदमब्रवीत् ॥ २४ ॥ साथै पश्य विध्वस्ता सायोध्या न प्रकाशते । निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥ २५ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥ त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान प्रभुः । अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥ १ ॥ विडालोलुक चरितामालीननरवारणाम् । तिमिराभ्याहतां कालीम प्रकाशां निशामिव ॥ २ ॥ राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् । ग्रहेणाभ्युत्थिते नैकां रोहिणीमित्र पीडिताम् ॥ ३ ॥ अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहङ्गमाम् । लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥ ४ ॥ विधूमामिव हेमाभामध्वराग्नेः समुत्थिताम् । हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥ ५ ॥ विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् । हतप्रवीरामापन्नां चमूमिव महाहवे ॥ ६ ॥ सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् । प्रशान्तमारुतोदघातां जलोर्मिमिव निस्वनाम् ॥ ७ ॥ दर्शयति चतुर्दशोत्तरशततमे - स्निग्धगम्भीरघोपेणेत्यादि । उपयान् समीपमागच्छन् ॥ १ ॥ कालीं कृष्णपक्षसम्बन्धिनीम् ॥ २ ॥ राहुशत्रोः चन्द्रस्य || ३ | ४ || हविरभ्युक्षितां दध्यादिहविषा अभ्युक्षिताम् । शिखां प्रवयत्थितज्वालाम् ॥ ५-७ ॥
ते सर्वे ततो गङ्गां ददृशुरिति सम्बन्धः ॥ २१-२४ ॥ सारथ इति । विध्वस्ता रामवियोगजदुःखेन पीडितेत्यर्थः । निराकारा निर्गतशोभनाकारा ॥ २५ ॥ इति श्रीमहेश्वरतीर्थविरचितायां रामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां त्रयोदशोत्तरशततमः सर्गः ॥ ११३ ॥ स्निग्धेति । उपयान समीपं गच्छन् ॥ १ ॥ कालीं कृष्णपक्षसम्बन्धिनीम् ॥ २ ॥ राहुशत्रोः चन्द्रस्य || ३ | ४ || हविरभ्युक्षितां दध्यादिहविषाम्युक्षिताम् । शिखां प्रवग्यत्थितशिखाम् ॥ ५-७ ॥
For Private And Personal Use Only

Page Navigation
1 ... 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691