Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 669
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie मितियावत्। युक्तपाशा युक्तरज्जुम्। तरस्विनां वीराणां बाणः विनिष्कृत्ताम्,छिन्नामिति यावत्। आयुधात् धनुषः॥१६॥युद्धशौण्डेन आहवसमर्थेन। निक्षिप्त भाण्डाम् अवरोपिताश्वभूषाम् । उत्सृष्टा वाहनानहीं किशोरी बालवडवाम्।।१७-१९॥प्रविगाढायां प्रवृद्धायां भास्करस्य प्रभामिव स्थिताम् । उक्तविशे सहसा युद्धशौण्डेन हयारोहेण वाहिताम् । निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥ १७॥ शुष्कतोयां महा मत्स्यैः कूर्मेश्च बहुभिर्वृताम् । प्रभिन्नतटविस्तीर्णी वापीमिव हृतोत्पलाम् ॥ १८॥ पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानु लेपनाम् । सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥ १९॥ प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् । प्रच्छन्ना नीलजीमूतैर्भास्करस्य प्रभामिव ॥ २०॥ भरतस्तु रथस्थः सन् श्रीमान दशरथात्मजः। वाहयन्त रथ श्रेष्ठं सारथिं वाक्यमब्रवीत् ॥ २१॥ किं नु खल्वद्य गम्भीरो मूञ्छितो न निशम्यते । यथापुरमयोध्यायां गीतवादित्र निस्वनः ॥२२॥ वारुणीमदगन्धश्च माल्यगन्धश्च मूञ्छितः। धूपितागरुगन्धश्च न प्रवाति समन्ततः ॥२३॥ यान प्रवरघोषश्च स्निग्धश्च हयनिस्वनः। प्रमत्तगजनादश्च महांश्च रथनिस्वनः । नेदानीं श्रूयते पुर्यामस्यां रामे विवा सिते ॥ २४ ॥ चन्दनागरुगन्धांश्च महाहांश्च नवस्रजः । गते हिरामे तरुणाःसन्तप्ता नोपभुञ्जते ॥२५॥ बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः। नोत्सवाः सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे॥२६॥ सह नूनं मम भ्रात्रा पुरस्यास्य द्युतिर्गता । नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥ २७॥ पणविशिष्टामयोध्यां प्रविवेशेति पूर्वेणान्वयः॥२०॥२१॥ किंनु खलु अहो कष्टं जातमित्यर्थः ॥२२॥ वारुणीमद्गन्धः वारुण्याः मदोत्पादको गन्ध इत्यर्थः २३-२६ ॥ सासारा वेगवदृष्टिसहिता। "आसारः स्यात्प्रसरणे वेगवृष्टौ सुहृद्धले" इति वैजयन्ती । अर्जुनी शुक्लपक्षसम्बन्धिनी ॥२७॥ युद्धशौण्डेन निक्षिप्तभाण्डा अवरोपिताश्वभूषाम् । किशोरी बालाश्वाम् । प्रविगाढायां निविहायाम् । उक्तविशेषणविशिष्टामयोध्या प्रविवेशेति पूर्वेण सम्बन्धः M॥१७-२२ ॥ वारुणीमदगन्धः वारुण्या मदोत्कटो गन्ध इत्यर्थः ॥२३-२६॥ सहेति । सासारा वेगवष्टिसहिता । अर्जुनी शुक्लपक्षसम्बन्धिनी । यद्वा अर्जुन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691