Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsur Gyarmandie
www.kabatirth.org
टी.अ. का म० ११५
वन्यते । निक्षेपवद्दत्तस्य राज्यस्य रक्षणादिस्वातन्त्र्यमपि स्वस्य नास्तीति दर्शयति योगक्षेमवहे चेति ॥१४॥भरत इति । संन्यासं पादके स्वप्रति
निधित्वेन न्यस्ते पादुके ॥ १५॥ छत्रमित्येतच्चामरादीनामुपलक्षणम् । अतएव धारयतेति बहुवचनम् । आर्यपादाभेदभावनया पादुकयोरिमाविति ዘዘ
भरतः शिरसा कृत्वा संन्यासं पादुके ततः। अब्रवीदुःखसन्तप्तः सर्व प्रकृतिमण्डलम् ॥ १५॥ छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ। आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम ॥ १६॥ भ्रात्रा हि मयि संन्यासो निक्षिप्तः सौहृदादयम् । तमिमं पालयिष्यामि राघवागमनं प्रति ॥ १७॥ क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् । चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥ १८॥ ततो निक्षिप्तभारोऽहं राघवेण समागतः। निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥ १९॥ राघवाय च संन्यासं दत्त्वेमे वरपादुके । राज्यं चेदमयोध्यां च धूतपापो
भवामि च ॥ २० ॥ अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने । प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥२१॥ पुल्लिङ्गनिर्देशः। पादुकाभ्यामिति हेतो तृतीया ॥१६॥ अयं संन्यासः पादुकारूपप्रतिनिधिः। पालयिष्यामि रक्षिष्यामि ॥१७॥१८॥ राघवेण समागतः सङ्गतः। गुखे राज्य निवेद्य रामाय राज्यं प्रत्यर्प्य ।ततः गुरुवृत्तितां भजिष्ये पितरीव शुश्रूषां करिष्यामीत्यर्थः॥१९॥धूतपाप इत्यत्र पापशब्देन केकेयी लानिमित्तमयश उच्यते ॥२०॥ प्रहृष्टमुदिते प्रहृष्टः पुलकितगात्रः, मुदितः सञ्जातमानसहर्षः ॥ २१-२३ ॥
वादो माभूदित्याह-एतदिति । संन्यासवत् सम्यनिक्षिप्तद्रव्यमिव । अनेन अनृणतया प्रत्यर्पणीयत्वं ध्वन्यते । निक्षिप्तवदत्तस्य यस्य रक्षणादिस्वातन्क्रयमपि स्वस्य नास्तीति दर्शयति योगक्षेमवहे चेति॥१४॥ संन्यासं पादुके स्वप्रतिनिधित्वेन न्यस्तपादुके । उपमित्येतच्चामरादीनामुपलक्षणम् । मम गुरोराभ्यां पादुकाभ्यां राज्ये धर्मः स्थित इति सम्बन्धः ॥ १५ ॥१६॥ धात्रेति । अयं संन्यासः पादुकाप्रतिनिधिः । तं पादुकाप्रतिनिधि पालयिष्यामि रक्षिष्यामि ॥ १७॥ १८ ॥ राघवेण समागतस्सङ्गतः गुरवे रामाय राज्य निवेद्य प्रत्यर्थे गुरुवृत्तिता भजिष्ये पितरीव शुश्रूषां करिष्यामीत्यर्थः ॥ १९ ॥ राघवायेति । संन्यासं बरपादुके रामप्रतिनिधि रूपश्रेष्ठपादुक राज्यमयोध्या च दचा धूतपापो भवामीति सम्बन्धः ॥ २०॥ दृष्टे पुलकितगाने । मुदित सातमानसह ॥ २१-२४ ॥
स०-संन्यासं ममागमनपर्यन्तं त्वयि तिष्ठस्थिति संन्यस्यत इति संन्यासम् । कर्मणि पन्तः । “घन्ताः पुंस्येव " इति नियमो नास्तीति सम्बन्धममुवर्तिष्पत इति भाष्पादौ स्पष्टमुक्तेर्युक्तः पादुके इत्यनेनान्वयः ॥ १५॥
Ta॥३३३॥
For Private And Personal Use Only

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691