Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 670
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ॥३३२॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir महोत्सवः ग्रीष्मे अम्बुद इव च अयोध्यायां कदा मे भ्राता हर्षे जनयिष्यतीति सम्बन्धः॥ २८ ॥ तरुणैरिति । उन्नतगामिभिः सगर्वगमनैरित्यर्थः। महापथाः राजमार्गाः ॥ २९ ॥ एवमिति । एवं बहुविधं जल्पन्नितिपाठः ॥ ३० ॥ तदेति । सुरैरुत्सृष्टमभास्करं दिनभित्र उज्झितप्रभम् अन्तःपुरं निरीक्ष्येति कदा नु खलु मे भ्राता महोत्सव इवागतः । जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः ॥ २८ ॥ तरुणैश्चारुवषैश्च नरैरुन्नतगामिभिः । सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः ॥ २९ ॥ एवं बहुविधं जल्पन विवेश वसतिं पितुः। तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥ ३० ॥ तदा तदन्तःपुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् । निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरतः सुदुःखितः ॥ ३१ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥ ततो निक्षिप्य मातृः स अयोध्यायां दृढव्रतः । भरतः शोकसन्तप्तो गुरूनिदमथाब्रवीत् ॥ १ ॥ नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः । तत्र दुःखमिदं सर्वे सहिष्ये राघवं विना ॥ २ ॥ सम्बन्धः । विविक्तं विजनम् । “विविक्तौ पूतविजनौ ” इत्यमरः । पुराकिल देवासुरयुद्धे असुरैर्देवाः पराजिताः, स्वर्भानुना च भानुः पातितस्तदानीं कियान् कालो दिवारात्रविभागरहितोऽभूत् । ततः परं ब्रह्मनियोगादत्रिः स्वतेजसा सप्तरात्रं सूर्याधिपत्यं चकारेति पौराणिकी कथा । अग्निः स्वतेजसेति पाठान्तरम् ॥ ३१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥ अथ भरतस्य नन्दिग्रामे स्थित्वा राज्यपरिपालनं पञ्चदशोत्तरशततमे - तत इत्यादिना ॥ १ ॥ नन्दिग्राममिति । राघवं विना दुःखं राघवं विना प्राप्तं शारदी ॥ २७ ॥ महोत्सवः ग्रीष्मे अम्बुद इव च अयोध्यां यदा मे भ्राता हर्षं जनयिष्यतीति सम्बन्धः ॥ २८ ॥ तरुणैरिति । उन्नतगामिभिः सगर्वगमनेरित्यर्थः । महापथाः राजमार्गाः ॥ २९ ॥ ३० ॥ उज्झितप्रभं अन्तःपुरं निरीक्ष्येति सम्बन्धः । सुरैरिवोत्सृष्टमभास्करं दिनमित्यत्रैवं श्रूयते-पुरा किल देवासुरयुद्धे असुरैर्देवाः पराजिताः, स्वर्भानुना च भानुः पातितः, तदानीं कियान् कालो दिवारात्रविभागरहितोऽभूत् । ततः परं ब्रह्मनियोगादत्रिः सप्तरात्रं सूर्याधिपत्यं चकारेति पौराणिकी कथा ॥ ३१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपि काख्यायामयोध्याकाण्डव्याख्यायां चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥ १ ॥ नन्दिग्राममिति For Private And Personal Use Only टी.अ.कां. स० [११५ ॥३३२ ॥

Loading...

Page Navigation
1 ... 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691