Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
॥३२८||
"पर्जन्यौ रसदब्देन्द्रौ" इत्यमरः ॥१२॥१३॥ एवं स्वबुद्धिशक्त्युपन्यस्तोपायान्तरवैफल्यदर्शनेन गत्यन्तराभावात् भरतो राममेव प्रपद्यत इत्याह-deी.अ.का इत्युक्त्वेति ॥ १४ ॥ तमङ्क इति । स्वप्रपदनस्यामोषत्वात् तदानीं पूर्वकृतदेवसङ्घशरणागतिफलप्रदानप्रवृत्त्यनुकूलपितृवचनपरिपालनावरुद्धावसरतया स.
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि । शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥१३॥ इत्युक्त्वा न्यपतद् भ्रातुः पादयोर्भरतस्तदा । भृशं सम्प्रार्थयामास राममेव प्रियंवदः॥ १४ ॥ तमः भ्रातरं कृत्वा रामो वचनमब वीत् । श्याम नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥ १५॥ आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या। भृशमुत्सहसेतात रक्षितुं पृथिवीमपि ॥१६॥ अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः। सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय॥ १७॥ लक्ष्मीश्चन्द्रादपेयादा हिमवान् वा हिमं त्यजेत् । अतीयात् सागरो वेलां न प्रतिज्ञामहं पितुः॥१८॥ कामाद्वा तात लोभादा मात्रा तुभ्यमिदं कृतम् । न तन्मनसि कर्त्तव्यं वर्तितव्यं च मारपत् ॥१९॥ तन्निर्वर्तनानन्तरं फलपदित्सुस्तावद्विलम्बसहनाय सान्त्वपूर्वमङ्कमारोपयति । रामदिव्यदेहसंस्पर्शकृतपुष्टयतिशयद्योतनाय श्याममित्यादिविशेषणम् । मत्तहंसस्वरत्वमादरातिशयं द्योतयति । किञ्च स्वररामणीयकेन पूर्वहंसभूतावस्थासूचकेन सदा त्वत्करपुष्करहंसभूतमपि मां कथं वियोजयितुमिच्छ सीति च मूच्यते । स्वयमकेकृत्वेत्यन्वयः ॥ १५॥ आगतेति । स्वजा सहजा । वैनयिकी बिनयो गुरुशिक्षा ततः प्राप्ता इयमुभयाकारा बुद्धिः। त्वामागता त्वां पूर्वमेव प्राप्तवती, अतो भृशमुत्सहसे शक्रोषि ॥ १६॥ अमात्यैरिति । अमात्यैः प्रधानसचिवैः । मन्त्रिभिः उपमन्त्रिभिः ॥ १७॥ मया देवर्षिसझैश्च पुनःपुनरुच्यमानोप्ययं निवर्त्तनेच्छां न त्यजेदिति तदिच्छा सवासना त्याजयितव्येति स्वप्रतिज्ञादाढ्य दर्शयति-लक्ष्मीरित्यादिना । न प्रतिज्ञाम् अतीयामितिशेषः ॥१८॥ तनि०-लक्ष्मीः कान्तिः चन्द्रादपेयात् इन्दुक्षयादिषु तथादर्शनात् । उदाहरणान्तरमाह-हिमवान्वेति । ग्रीष्मकाले हिम वतोपि हिमपरिक्षयसंभवात् । सागरोप्यतीयावेलां प्रलये वेलोलचनसम्भवात् ॥ १८॥ स्त्रिया कामकृतत्वात्त्यक्तुमियं प्रतिज्ञाईत्याशङ्कयाह-कामादित्यादिना । M३२६॥ रक्तानु अनुरक्तान् ॥११-१५।। आगतेति । स्वजा सहजा । वैनयिकी विनयो गुरुशिक्षा ततः प्राप्ता । इयमुभयाकारा बुद्धिस्त्वामागता त्यो पूर्वमेव प्राप्तवती, अतो भृशमुत्सहसे नितरां शक्नोषि ॥१६॥ अमात्यैः प्रधानसचिवैः । मन्विभिः उपमन्विभिः ॥१७॥ लक्ष्मीरिति । पितुः प्रतिज्ञा न त्यजेयमिति शेषः॥१८॥ कामादिति ।
For Private And Personal Use Only

Page Navigation
1 ... 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691