Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 657
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दनबीजभूत शरीरोत्पादकत्वात् अत्यन्ताज्ञानदशायामपि सर्वप्रकारसंरक्षणणेन बहुविधोपकारकत्वाच्चाचार्यवचनादपि पितृवचनमवश्यं कर्तव्यम् अतएव “ मातृदेवो भव पितृदेवो भव आचार्य देवो भव" इति चरमपर्वण्याचार्य उपात्त इत्यभिप्रायेणाह - यन्मातेत्यादिना श्लोकद्वयेन । तनये यथाशक्ति प्रदानेन स्नापनोच्छादनेन च । नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥ १० ॥ स हि राजा जनयिता पिता दशरथ मम । आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ ११ ॥ एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् । उवाच परमोदारः स्रुतं परमदुर्मनाः ॥ १२ ॥ इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे । आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ १३॥ अनाहारो निरालोको धनहीनो यथा द्विजः । शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥ १४ ॥ तनयसम्पादननिमित्तं यद्वृत्तं व्रतोपवासदेवताराघनादिकं कुरुतः, तन्न सुप्रतिकरं सुतरामशक्यप्रत्युपक्रियम् । मात्रा पित्रा च उत्पत्त्यनन्तरं यथाशक्ति प्रदानेन स्तन्यान्नादिप्रदानेन खापनाच्छादनेन नित्यं प्रियवादेन सदा संवर्धनेन च यत्कृतं तच्च सुप्रतिकरम् ॥ ९ ॥ १० ॥ स हीति । जनयिता पितेति गौणपितृव्यावृत्तिः । आज्ञातम् प्रतिज्ञातम् । एवं प्रथमं प्रतिज्ञातत्वात् मातृवचनं भ्रातृवचनं च कर्तुं नामीति भावः ॥ ११ ॥ एवमिति । प्रत्यनन्तरं समीपस्थं परमोदारः सान्त्वितामामिकेत्यादिना दत्तराज्यनिर्वाहकः ॥ १२ ॥ इहेति । इह स्थण्डिले भूमौ कुशानास्तर आस्तृणीहि, पावनत्वार्थमित्यर्थः । अतएव वक्ष्यति 'कुशानास्तीर्य राघवः ' इति । प्रत्युपवेक्ष्यामि प्रतिरोत्स्यामीत्यर्थः ॥ १३ ॥ प्रत्युपवेशप्रकारमाह-अनाहार || इति । निरालोकः अवकुण्ठिताननः । धनहीनः वृद्ध्यर्थम् ऋणप्रदानान्निर्धनः । शेष्ये शयिष्ये । इडभाव आर्षः ॥ १४ ॥ प्रधानसाधनभूतस्य शरीरस्योत्पादकत्वात् अत्यन्ताज्ञानदशायामपि सर्वप्रकारसंरक्षणेन बहुश उपकारकत्वाच्च आचार्यवचनादपि पितृवचनमवश्यं कर्तव्यमित्य भिप्रायेणाह यन्मातापितरावित्यादिश्लोकद्वयेन । तनये तनयसम्पादननिमित्तम् । यद्वृत्तं बद्धनम् । व्रतोपवासदेवताराधनादिकं मातापितरौ कुरुतः तन्त्र सुमतिकरं सुतरामशक्यप्रतिक्रियम् । मात्रा पित्रा च उत्पत्त्यनन्तरं यथाशक्ति प्रदानेन स्तन्यान्नाच्छादनादिमदानेन प्रियवादेन संबर्द्धनेन च यत्कृतं तच्च न सुप्रतिकरमिति सम्बन्धः ॥ ९ ॥ १० ॥ स हीति । जनयिता पिता गौणः पिता न भवतीत्यर्थः । आज्ञातं चतुर्दशवर्षावधिवनवासरूपमाज्ञापनम् । मयेति हेतौ तृतीया ॥ ११ ॥ प्रत्यनन्तरं समीपवर्तिनम् ॥ १२ ॥ उपवेक्ष्यामि उपरोत्स्यामीत्यर्थः ॥ १३ ॥ निरालोकः अवकुण्ठिताननः । धनहीनः वृद्धयर्थमृणं दत्वा तद्ग्रहणार्थमधमर्णावरोध स- शालायाः पुरस्तान्मामुदिश्य प्रतियास्यति खद्विधानं करोमीत्यायास्यति ॥ १४ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691