________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दनबीजभूत शरीरोत्पादकत्वात् अत्यन्ताज्ञानदशायामपि सर्वप्रकारसंरक्षणणेन बहुविधोपकारकत्वाच्चाचार्यवचनादपि पितृवचनमवश्यं कर्तव्यम् अतएव “ मातृदेवो भव पितृदेवो भव आचार्य देवो भव" इति चरमपर्वण्याचार्य उपात्त इत्यभिप्रायेणाह - यन्मातेत्यादिना श्लोकद्वयेन । तनये यथाशक्ति प्रदानेन स्नापनोच्छादनेन च । नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥ १० ॥ स हि राजा जनयिता पिता दशरथ मम । आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥ ११ ॥ एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् । उवाच परमोदारः स्रुतं परमदुर्मनाः ॥ १२ ॥ इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे । आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥ १३॥ अनाहारो निरालोको धनहीनो यथा द्विजः । शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥ १४ ॥ तनयसम्पादननिमित्तं यद्वृत्तं व्रतोपवासदेवताराघनादिकं कुरुतः, तन्न सुप्रतिकरं सुतरामशक्यप्रत्युपक्रियम् । मात्रा पित्रा च उत्पत्त्यनन्तरं यथाशक्ति प्रदानेन स्तन्यान्नादिप्रदानेन खापनाच्छादनेन नित्यं प्रियवादेन सदा संवर्धनेन च यत्कृतं तच्च सुप्रतिकरम् ॥ ९ ॥ १० ॥ स हीति । जनयिता पितेति गौणपितृव्यावृत्तिः । आज्ञातम् प्रतिज्ञातम् । एवं प्रथमं प्रतिज्ञातत्वात् मातृवचनं भ्रातृवचनं च कर्तुं नामीति भावः ॥ ११ ॥ एवमिति । प्रत्यनन्तरं समीपस्थं परमोदारः सान्त्वितामामिकेत्यादिना दत्तराज्यनिर्वाहकः ॥ १२ ॥ इहेति । इह स्थण्डिले भूमौ कुशानास्तर आस्तृणीहि, पावनत्वार्थमित्यर्थः । अतएव वक्ष्यति 'कुशानास्तीर्य राघवः ' इति । प्रत्युपवेक्ष्यामि प्रतिरोत्स्यामीत्यर्थः ॥ १३ ॥ प्रत्युपवेशप्रकारमाह-अनाहार || इति । निरालोकः अवकुण्ठिताननः । धनहीनः वृद्ध्यर्थम् ऋणप्रदानान्निर्धनः । शेष्ये शयिष्ये । इडभाव आर्षः ॥ १४ ॥
प्रधानसाधनभूतस्य शरीरस्योत्पादकत्वात् अत्यन्ताज्ञानदशायामपि सर्वप्रकारसंरक्षणेन बहुश उपकारकत्वाच्च आचार्यवचनादपि पितृवचनमवश्यं कर्तव्यमित्य भिप्रायेणाह यन्मातापितरावित्यादिश्लोकद्वयेन । तनये तनयसम्पादननिमित्तम् । यद्वृत्तं बद्धनम् । व्रतोपवासदेवताराधनादिकं मातापितरौ कुरुतः तन्त्र सुमतिकरं सुतरामशक्यप्रतिक्रियम् । मात्रा पित्रा च उत्पत्त्यनन्तरं यथाशक्ति प्रदानेन स्तन्यान्नाच्छादनादिमदानेन प्रियवादेन संबर्द्धनेन च यत्कृतं तच्च न सुप्रतिकरमिति सम्बन्धः ॥ ९ ॥ १० ॥ स हीति । जनयिता पिता गौणः पिता न भवतीत्यर्थः । आज्ञातं चतुर्दशवर्षावधिवनवासरूपमाज्ञापनम् । मयेति हेतौ तृतीया ॥ ११ ॥ प्रत्यनन्तरं समीपवर्तिनम् ॥ १२ ॥ उपवेक्ष्यामि उपरोत्स्यामीत्यर्थः ॥ १३ ॥ निरालोकः अवकुण्ठिताननः । धनहीनः वृद्धयर्थमृणं दत्वा तद्ग्रहणार्थमधमर्णावरोध स- शालायाः पुरस्तान्मामुदिश्य प्रतियास्यति खद्विधानं करोमीत्यायास्यति ॥ १४ ॥
For Private And Personal Use Only