Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 643
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir क भवेत् । नचैवं दृश्यते अतः श्राद्धादिकं मृतस्याशनं न भवतीति भावः ॥ १५ ॥ एवमेकत्र वैदिककर्मणि फलव्यभिचारदर्शनात्सर्वत्रापि वैदिके न दानसंवनना ह्येते ग्रन्था मेधाविभिः कृताः । यजस्व देहि दीक्षस्व तपस्तप्यस्व सन्त्यज ॥ १६॥ स नास्ति पर मित्येव कुरु बुद्धिं महामते । प्रत्यक्षं यत्तदातिष्ठ परोक्षं पृष्ठतः कुरु ॥ १७॥ स तां बुद्धिं पुरस्कृत्य सर्वलोक निदर्शिनीम् । राज्यं त्वं प्रतिगृह्णीष्व भरतेन प्रसादितः ॥ १८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये | श्रीमदयोध्याकाण्डे अष्टोत्तरशततमः सर्गः ॥१०८॥ फलप्रसक्तिरित्याह-दानसंवनना इत्यादिना । दानसंवननाः दानाय वशीकरणोपायाः “संवननं कर्मणा वशीकरणम्" इति हलायुधः । मेधाविभिः पर VIद्रव्यग्रहणकुशलबुद्धिभिः । यजस्व देवताराधनं कुरुष्व। सन्त्यज अर्थेषणादीन् सम्यक् त्यज । अत्रेतिकरणं दृष्टव्यम् । यजस्वेत्यादिरूपा ग्रन्थाः मेधा पाविभिः कृता इत्यन्वयः ॥१६॥ स इति । सः पितृवचनं परिपालनीयमितिमन्यमानः त्वं परं परलोकानुभाव्यं यत्प्रत्यक्षं प्रत्यक्षसिद्धं राज्यभोगादिकम् ।। तदातिष्ठ प्रतिगृह्णीष्व परोक्षं परोक्षसुखफलकं पितृवचनपरिपालनादिकम् ॥१७॥ स इति । तां बुद्धिं प्रत्यक्षादन्यं नास्तीतिबुद्धिम् । सर्वलोकनिदर्शिनी सर्वजनसम्मतामित्यर्थः॥ १८॥ इति श्रीगोविन्दराज श्रीरामायणभूषणे पीताम्बरा० अयोध्याकाण्डव्याख्याने अष्टोत्तरशततमः सर्गः ॥१८॥ अन्यस्य देहं गच्छति यदि तदा प्रवसतः श्राद्धं दद्यात् पथि गच्छन्तमुद्दिश्यानं भोजयेत् अन्यभुक्तमन्नं पथ्यशनं भवेत, पथिकस्य पायेयं भवेदित्यर्थः । नवं दृश्यते अतो न भवतीति भावः ॥१५॥ वैदिकाचार सन्दप्य तद्विधायक शास्त्रं दूषयति-दानेति । दानसंवननाः दानाय वशीकरणोपाया। मेधाविभिः द्रव्यग्रहण Miकुशलबुद्धिभिः । यजस्व देवताराधनं कुरुष्व । अर्थादीन सन्त्यज सम्यक्त्यज । अत्रेतिकरणं द्रष्टव्यम् ॥ १६ ॥ स इति । सः पितृवचनं परिपालनीयमिति मन्य मानस्त्वम् । परलोकं नास्तीति बुद्धिं कुरु । प्रत्यक्षं प्रत्यक्षसिद्धं राज्यभोगादिकं यत्तदातिष्ठ प्रतिगृहीष्व परोक्षसुखफलकं पितृवचनपरिपालनादिकम् । पृष्ठतः कुरु नानुतिष्ठ ॥ १७ ॥ तो बुद्धिं सर्वलोकनिदर्शिनी सर्वजनसम्मतामित्यर्थः ॥ १८॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायाम अयोध्याकाण्ड व्याख्यायाम् अष्टोत्तरशततमः सर्गः ॥ १०८॥ - For Private And Personal Use Only

Loading...

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691