Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
रा.भ. ३१७
उक्तप्रकारेण । प्रतीताः निश्चितवन्तः ॥ १४-१६ ॥ मृगाणां राजराट् भवामि मृगाणां रञ्जकः शिक्षकश्च भवामीत्यर्थः । अब मृगशब्देन । टी.अ.का. तत्तुल्या मुनयो लक्ष्यन्ते । यदा भाविसुग्रीवरअनवालिवधादीनां बीजन्यासोयम् ॥ १७ ॥ छायामिति । वर्षवं छत्रम् । सुखी श्रयिष्य इतिपाठः ॥१८॥ स. १०८
अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय। शत्रुघ्नसहितो वीर सह सर्वेदिजातिभिः ॥ १५॥ प्रवेक्ष्ये दण्डकारण्य महमप्यविलम्बयन । आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥ १६ ॥ त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् । गच्छ त्वं पुरवरमद्य सम्प्रहृष्टः संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥१७॥ छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् । एतेषामहमपि काननद्रुमाणां छायां तामति शयिनी सुखी श्रयिष्ये ॥ १८॥ शत्रुघ्नः कुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम् । चत्वार स्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ १९॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तोत्तरशततमः सर्गः ॥ १०७॥
आश्वासयन्तं भरत जाबालिाह्मणोत्तमः । उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥१॥ शत्रुघ्न इति । चराम करवामेत्यर्थः।।१९॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता. अयोध्याकाण्ड सप्तोत्तरशततमः सर्गः ॥ १०७॥ एवं रामेणोक्ते निरुत्तरतया स्थितं भरतमालोक्य हितपरतया जाबालिश्चार्वाकमतमाश्रित्योत्तरमाह अष्टोत्तरशततमे-आश्वासयन्तमित्यादिना । ब्राह्म भरतस्य राज्याधिपत्यमिव स्वस्य वनाधिपत्वं सम्पादयति-त्वमित्यादि । मृगाणां राजराट भवामि मृगाणां रञ्जका शिक्षकश्च भवामीत्यर्थः । एतद्भाविसुग्रीव रञ्जनवालिषधादीनां वीजत्वेन प्रतिभाति ॥ १७ ॥ छायामिति । वर्षत्रं छत्रम् । दिनकरभा इति द्वियीयावहुवचनम् । शीता छायामित्यन्वयः ॥ १८॥ शत्रुघ्न इति ।M३१७॥ चराम करवामेत्यर्थः ॥ १९ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां सप्तोत्तरशततमः सर्गः ॥ १०७॥ आश्वासयन्तमिति । धर्मापेतं वैदिकधर्मविरुद्धम् ॥१॥
For Private And Personal Use Only

Page Navigation
1 ... 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691