SearchBrowseAboutContactDonate
Page Preview
Page 640
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kalassagarsun Gyarmandie रा.भ. ३१७ उक्तप्रकारेण । प्रतीताः निश्चितवन्तः ॥ १४-१६ ॥ मृगाणां राजराट् भवामि मृगाणां रञ्जकः शिक्षकश्च भवामीत्यर्थः । अब मृगशब्देन । टी.अ.का. तत्तुल्या मुनयो लक्ष्यन्ते । यदा भाविसुग्रीवरअनवालिवधादीनां बीजन्यासोयम् ॥ १७ ॥ छायामिति । वर्षवं छत्रम् । सुखी श्रयिष्य इतिपाठः ॥१८॥ स. १०८ अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय। शत्रुघ्नसहितो वीर सह सर्वेदिजातिभिः ॥ १५॥ प्रवेक्ष्ये दण्डकारण्य महमप्यविलम्बयन । आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ॥ १६ ॥ त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् । गच्छ त्वं पुरवरमद्य सम्प्रहृष्टः संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ॥१७॥ छायां ते दिनकरभाः प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् । एतेषामहमपि काननद्रुमाणां छायां तामति शयिनी सुखी श्रयिष्ये ॥ १८॥ शत्रुघ्नः कुशलमतिस्तु ते सहायः सौमित्रिर्मम विदितः प्रधानमित्रम् । चत्वार स्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ॥ १९॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तोत्तरशततमः सर्गः ॥ १०७॥ आश्वासयन्तं भरत जाबालिाह्मणोत्तमः । उवाच रामं धर्मज्ञं धर्मापेतमिदं वचः ॥१॥ शत्रुघ्न इति । चराम करवामेत्यर्थः।।१९॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीता. अयोध्याकाण्ड सप्तोत्तरशततमः सर्गः ॥ १०७॥ एवं रामेणोक्ते निरुत्तरतया स्थितं भरतमालोक्य हितपरतया जाबालिश्चार्वाकमतमाश्रित्योत्तरमाह अष्टोत्तरशततमे-आश्वासयन्तमित्यादिना । ब्राह्म भरतस्य राज्याधिपत्यमिव स्वस्य वनाधिपत्वं सम्पादयति-त्वमित्यादि । मृगाणां राजराट भवामि मृगाणां रञ्जका शिक्षकश्च भवामीत्यर्थः । एतद्भाविसुग्रीव रञ्जनवालिषधादीनां वीजत्वेन प्रतिभाति ॥ १७ ॥ छायामिति । वर्षत्रं छत्रम् । दिनकरभा इति द्वियीयावहुवचनम् । शीता छायामित्यन्वयः ॥ १८॥ शत्रुघ्न इति ।M३१७॥ चराम करवामेत्यर्थः ॥ १९ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायाम् अयोध्याकाण्डव्याख्यायां सप्तोत्तरशततमः सर्गः ॥ १०७॥ आश्वासयन्तमिति । धर्मापेतं वैदिकधर्मविरुद्धम् ॥१॥ For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy