________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
Mणोत्तम इत्यनेन वक्ष्यमाणं नास्तिकवचनमहृदयमिति द्योत्यते । धर्मापेतं वैदिकधर्मापेतम् ॥ १॥ साध्विति । बुद्धिः साधु माभूत् सम्यक निवर्त्यता मित्यर्थः ॥२॥ क इति । कस्य पुरुषस्य केनचित्साधनेन किमाप्यम्, न किमपीत्यर्थः ॥३॥४॥ यथेत्यादि । आवासमात्रमिति मार्गस्थसत्र
साधु राघव माभूत्ते बुद्धिरेवं निरर्थिका । प्राकृतस्य नरस्येव ह्यार्यबुद्धेर्मनस्विनः ॥२॥ कः कस्य पुरुषो बन्धुः किमाप्यं कस्य केनचित् । यदेको जायते जन्तुरेक एव विनश्यति ॥३॥ तस्मान्माता पिता चेति राम सज्जेत यो नरः। उन्मत्त इव स ज्ञेयो नास्ति कश्चिद्धि कस्यचित् ॥४॥ यथा ग्रामान्तरंगच्छन् नरः कश्चित् क्वचिद्रसेत् । उत्सृज्य च तमावासं प्रतिष्ठेतापरेऽहनि ॥५॥ एवमेव मनुष्याणां पिता माता गृहं वसु । आवासमात्रं काकुत्स्थ सजन्ते नात्र सज्जनाः ॥६॥ पित्र्यं राज्यं परित्यज्य स नार्हसि नरोत्तम । आस्थातु कापथं दुःखं विषमं बहु कण्टकम् ॥ ७॥ समृद्धायामयोध्यायामात्मानमभिषेचय । एकवेणी धरा हि त्वां नगरी सम्प्रतीक्षते ॥८॥राज भोगाननुभवन् महानि पार्थिवात्मज । विहर त्वमयोध्यायां यथा शक्रस्त्रिविष्टपे॥९॥ न ते कश्चिदशरथस्त्वं च तस्य न कश्चन । अन्यो राजा त्वमन्यः स तस्मात् कुरु यदुच्यते ॥१०॥ बीजमात्रं पिता जन्तोः शुक् रुधिर मेव च । संयुक्तमृतुमन्मात्रा पुरुषस्येह जन्म तत् ॥ ११॥ शालायां विश्रमार्थ क्षणं निवासेपि तद्विसृज्य गच्छतः पथिकस्य तच्चिन्ताननुवृत्तिवत् यावत्संश्लेषमेव मातापित्रादयोऽनुवर्तनीयाः । विश्शेषे तत्स्मृति रपि विफला, किमुत तत्प्रीत्यर्थकार्याचरणमिति भावः ॥५॥६॥ पित्र्यमिति । रामाभिप्रायेणेदं परप्रतीत्या परो बोधनीय इति न्यायात् । कापथं कुत्सितमार्गम् । दुःखं दुःखप्रदम्। विषम योदनानुचितम् ।बहुकण्टकम् अनेकोपप्लवसहितम् । कापथमित्यनेनानुचितवानप्रस्थमार्ग एवोच्यते ॥७॥ समृ छायामिति । एकवेणी धरा व्रतपरायणेत्यर्थः । नगरी तदाधिदेवता ॥८॥९॥ नेति । यदुच्यते मयेति शेषः॥ १०॥ बीजमात्रमिति । पिता जन्तो साधु माभूत सम्यनिवर्ततामित्यर्थः ॥२॥ कस्यचित्पुरुषस्य केनचित्सम्बन्धेन किमान्य प्राप्यं किम् ? न किमपीत्यर्थः । तत्र हेतुः यदेक इति ॥ ३-६ ॥ पित्र्यं राज्यमिति रामाभिप्रायेणोक्तिः । पराभिप्रायेण परो बोधनीय इति न्यायादित्याशयः । कापथं कुत्सितमार्गम् । दुःखं दुःखप्रदम् ॥ ७-१०॥ पिता जन्तो/जमात्रम्
For Private And Personal Use Only