________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
दातुं कथमुयुक्तवान् ? सत्यम्-"उदाइकाले रतिसम्प्रयोगे प्राणात्यये सर्वधनापहारे। विप्रस्य चार्थेप्यनृतं वदेयुः पञ्चानृतान्याहुरपातकानि।" इतिन्यायेन दोषाभावं हृदि निधाय तथाकृतवानिति न दोषः । केकयोपि रामगुणानुविद्धतया राज्यं न दौहित्राय याचितवान् । रामोपि सुमन्त्रादिभ्य इदं रहस्य
तेन पित्राऽहमप्यत्र नियुक्तः पुरुषर्षभ । चतुर्दश वने वासं वर्षाणि वरदानिकम् ॥७॥ सोऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वितः। सीतया चाप्रतिद्वन्द्रःसत्यवादे स्थितः पितुः॥८॥ भवानपि तथेत्येव पितरं सत्यवादिनम् । कर्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ॥ ९॥ ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् । पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ॥ १०॥ श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना। गयेन यजमानेन गयेष्वेव पितृन् प्रति ॥१॥ पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुतः। तस्मात् पुत्र इति प्रोक्तः पितृन् यत्पाति वा सुतः॥१२॥ एष्टव्या बहवः पुत्रा गुणवन्तो बहुश्रुताः। तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ॥ १३ ॥ एवं राजर्षयःसर्वे प्रतीता राज नन्दन । तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ॥ १४॥ श्रुतवान् अतएव हि ते शृण्वन्तोऽनुमान्य स्थितवन्त इति द्रष्टव्यम् ॥६॥ तेन कैकेय्यै प्रतिश्रुतराज्येन । अत्र वने दण्डकारण्ये । वरदानिकं वरदाननिमि। तकं वासं नियुक्त इति सम्बन्धः॥७॥ अप्रतिद्वन्द्वः केनापि वारयितुमशक्य इति यावत् ॥ ८॥९॥ऋणान्मोचय राजानं स्वाभिषेचनेन कैकेय्या
ऋणादाजानं मोचयेत्यर्थः॥१०॥ स्वोक्तार्थस्यावश्यकर्त्तव्यत्वे सम्मतिमाह-श्रूयत इत्यादिना । गयेन गयाख्येन । गयेषु गयाख्येष प्रदेशेष ॥११॥ Nelपुन्नाम्रो नरकात्रायत इति पुत्रः । पितून पाति तदुद्देशकृतेष्टापूर्तादिना स्वल्र्लोकं प्रापय्य रक्षतीत्यर्थः॥ १२॥ एव्याः कातितव्याः ॥१३॥ एवम्
अत्र वने दण्डकारण्ये वरदानिकं वरदाननिमित्तक वासं नियुक्त इति सम्बन्धः॥७॥ अप्रतिद्वन्द्वः अप्रतिबन्धः केनापि निवर्तयितुमशक्य इत्यर्थः॥८॥९॥ ऋणान्मोचय राजानं स्वाभिषेचनेन कैकेय्या ऋणाद्राजानं मोचयेत्यर्थः ॥ १०॥ स्वोक्तस्थावश्यकत्वे सम्मतिमाह-श्रूयत इति । गयेन गयाख्येन । गयेषु गयाख्यप्रदेशेषु ॥११॥ पुन्नाम्रो नरकात् त्रायत इति पुत्रः पितॄन पाति पितृनुद्दिश्य कृतेष्टापूर्तादिना स्वर्लोकं प्रापय्य रक्षतीत्यर्थः ॥ १२॥ पष्टव्या इतिं । बहवः पुत्रा पष्टव्याः प्राप्तव्याः। कुतः ! तेषामिति ॥ १३ ॥ अत एव सर्वे राजर्षयः। एवं प्रतीताः एवमुक्तप्रकारेण निश्चितवन्तः ॥ १४-१६ ॥
For Private And Personal Use Only