Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 609
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir वर्गादीनां तत्त्वं ज्ञात्वा हेयान् जहासि ग्राह्यान् गृह्णासि कञ्चिदिति यावत् ॥ ७॥ मन्त्रिभिरिति । यथोद्दिष्टेः शास्त्रोक्तमन्त्रिलक्षणलक्षितैः। यथाद्दिष्टमितिपाठे-नीतिशास्त्रोक्तमन्त्रविचारमार्गमनतिक्रम्येत्यर्थः । बहुभिर्मन्त्रकरणे मन्त्रभिन्नत्वसम्भवादैकमत्याभावाच्च 'चतुर्भिस्त्रिभिरेववा' इत्युक्तम् । व्यस्तैस्तत्तन्मतं परिज्ञाय समस्तैश्चतुर्भिस्त्रिभिर्वा परिगणितेमन्त्रिभिः मिथः रहसि मन्त्र मन्त्रयसे कच्चित् ॥७२॥ राज्ञामवश्यं सम्पादनीया मन्त्रिभिस्त्वं यथोद्दिष्टश्चतुर्भिस्त्रिभिरेव वा । कच्चित् समस्तैयस्तैश्च मन्त्रं मन्त्रयसे मिथः ॥ ७२ ॥ कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः। कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ ७३ ॥ कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव । आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥७॥ यां वृत्तिं वर्त्तते तातो यां च नः प्रपितामहाः । तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ ७५॥ नर्थान् पृच्छति-कञ्चित्ते सफला वेदा इति । ते वेदाः त्वदधीता वेदाः सफलाः कश्चित् । अग्निहोत्राद्यनुष्ठानेन सफलीकृताः कच्चित् । क्रियन्ते । साध्यन्त इति क्रियाः धनानि । धनानि त्वत्सम्पादितानि दानभोगाभ्यां सफलीकृतानि कच्चित् । ते दाराः सफलाः कचित् रतिपुत्राभ्यां सफलाः कच्चित् । ते श्रुतं शास्त्रश्रवणं सफलं कच्चित् शीलवृत्ताभ्यां सफलं कच्चित् । तथा च महाभारते-" अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥” इति ॥ ७३ ॥ कच्चिदेवति । आयुष्या यशस्या धर्मकामार्थसंहिता उक्ता एषा बुद्धिर्मम यथा तथैव ते तव वर्तते कच्चित ॥७॥ अथ उक्तानुक्तं सकलं साहेण दर्शयति-यामित्यादिना। वृत्तिमाचरन् वर्तते अवर्तिष्ट । यद्वा दशरथमरणास्याज्ञातत्वात! इति । अरिणा पीयमानम्य बलवदाश्रयणं समाश्रय इति विवेकः । एतान् पूर्वोक्तदशवर्गादीन यथावदनुमन्यसे कञ्चित् ग्राह्यणाहकत्वेन जानासि कञ्चित् ॥७॥ मन्त्रिभिरिति । यथोद्दिष्टेः शास्त्रोक्तमन्त्रिलक्षणलक्षितैः। बहुभिर्मन्त्रकरणे मन्त्रभिन्नत्वसम्भवादैकमत्याभावाञ्च चतुर्भिस्त्रिभिरेवेत्युक्तिः।व्यस्तैर्मन्त्रकरणे तत्तन्मतपरि ज्ञानं भवतीत्यर्थः॥ ७२ ॥ राज्ञामवश्यसम्पादनीयानि पृच्छति-कञ्चिदिति । ते वेदाः त्वदधीता बेदाः सफलाः कच्चित् त्वद्विहिताग्रिहोत्राद्यनुष्ठानेन सफली कृताः कच्चित् ! क्रियाः क्रियन्ते साध्यन्त इति व्युत्पत्या क्रियाशब्देन धनधान्यान्युच्यन्ते, त्वत्सम्पादितानि धनादीनि दानभोगाभ्यां सफलानि कच्चित । ते दारा सफलाः रतिपुत्रफलाः कच्चित् ? ने श्रुतं शास्त्रश्रवणं शीलवृत्तोत्पादनेन सफलं कश्चित् ? तथा च भारते "अग्निहोत्रफला वेदा दत्तभुक्तफलं धनम् । रतिपुत्रफला दाराः शीलवृत्तफलं श्रुतम् ॥" इति ॥ ७३ ॥ पषा धर्मकामार्थसंहिता तत्परा उक्ता एषा ते बुद्धिः मम यथा तथैव तवापि बईते कच्चित् ॥ ७४-७५ ।। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691