SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Sh Kalassagarsun Gyarmandir www.kabatirth.org मूर्खाणां सहस्त्रात मूर्खसहस्रं परित्यज्यापि । ल्यब्लोपे पञ्चमी । पण्डितं विमृश्यकारिणमेकमिच्छसि कच्चित् । पण्डितपारिग्रहे हेतुमाह पण्डित इति । अर्थकृच्छ्रेषु कार्यसङ्कटेषु (पाठान्तरम् । अर्थकृच्छ्रेषु अर्थसङ्कटेषु) महनिःश्रेयसं महदैश्वर्य प्रापयेदित्यर्थः। (महनिःश्रेयसम् अव्यभिचारितफल साधनोपायम्) कुर्यात् उपदिशेदित्यर्थः ॥ २३ ॥ एवमन्वयेनोपपाद्य व्यतिरेकमुखेनोपपादयति-सहस्राणीति । उपास्ते आश्रयति, संगृह्णातीत्यर्थः। कच्चित् सहस्रान मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ॥ २३ ॥ सहस्रा ण्यपि मूर्खाणां यद्युपास्ते महीपतिः। अथवाप्ययुतान्येव नास्ति तेषु सहायता॥ २४॥ एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षणः।राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥२५॥ कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः। जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥ २६ ॥ अमात्यानुपधातीतान् पितृपैतामहा छुचीन् । श्रेष्ठान श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ २७ ॥ नास्तीत्यस्मात्पूर्व तथापीत्युपस्कार्यम् । सहायता मन्त्रोपायसहायत्वम् ॥ २४॥ पण्डितशब्दार्थ विवृण्वन्नाह-एक इति । मेधाऽस्यास्तीति मेधावी । "अस्मायामेधास्रजोविनिः" इति विनिः । झटिति परोपन्यस्तार्थग्रहणपटुरित्यर्थः। शूरः स्थिखुद्धिः। दक्षः विचारसमर्थः। विचक्षणः अभ्यस्तनीतिशास्त्रः ॥२५॥ कच्चिन्मुख्या इति । मुख्याः भृत्याः महत्सु मुख्येष्वेव कार्येषु वचनपरिवेषणादिषु कञ्चिनियोजिताः न तु हीनेषु कार्येषु । मध्यमाः जात्यादिना मध्यमा भृत्याः मध्यमेष्वेव कार्येषु शय्यासनानयनादिषु नियोजिताः न तूत्तमाधमकायेषु । जघन्याः जात्यादिहीनाः भृत्याः जघन्येष्वेव कार्येषु पाद प्रक्षालनपादुकानयनपादसंवाहनादिषु नियोजिताः नतूत्तममध्यमषु कार्येषु योजिताः कच्चिद, अन्यथा महदेशसं भवेदिति भाव ॥२६॥ भृत्येषूक्तं न्याय ममात्येष्वतिदिशति-अमात्यानिति । उपधातीताच स्वव्यतिरिक्तवर्धाधुपाधिरहितान् । यद्वा सुपरीक्षातीतान् “उपधा सुपरीक्षा स्यात" इति मूर्खाणां सहस्राव अविमृश्यकारिणां सहस्रात पण्डितं सम्पग्विमृश्यकारिणमेकामिच्छसि कश्चित् । पाण्डितग्रहणे हेतुमाह पण्डित इति । अर्थकुच्छ्रेषु अर्थसङ्कटेषु महनिःश्रेयस कुर्यात् महदैश्वर्य प्रापयेदित्यर्थः ॥ २३ ॥ २४ ॥ एक इति । विचक्षणः अभ्यस्तनीतिशास्त्र इत्यर्थः॥ २५ ॥ २५॥ अमात्यानिति । उपधातीतान उपधा परीक्षा " उपधा वा परीक्षा स्यात" इति हलायुधः । अनर्धवस्त्राभरणादिकं पुरुषमुखेन सम्प्रेष्य राजनीप्रेषितमिति प्रबोध्य परीक्षा कुर्वते राजानः,M For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy