Book Title: Valmiki Ramayanam Part 02
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 596
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir बा.रा.भू. शास्वजनपदभवः। परजनपदभवश्चत्पक्षपातमाचरेत् । विद्वान् पराभिप्रायज्ञः। दक्षिणःसमर्थः। प्रतिभानवान् प्रत्युत्पन्नमतिः, परोक्तस्याविलम्बमुचितोटी .अ.का. १२९५त्तरज्ञ इति यावत्। यथोक्तवादी उक्तमनतिक्रम्य सन्देशप्रतिसन्देशवदनशीलः कार्योंपयोगितया बहमुखं व्याहरनपिस्वाम्युक्तमजहदेव व्यवहत्तेति यावत् ॥ १०॥ पापण्डितः परिच्छेत्ता । “ परिच्छेदो हि पाण्डित्यम्" इत्युक्तेः ॥ ३६ ॥ कच्चिदष्टादशान्येष्विति । अन्येषु परपक्षेषु । अष्टादश तीर्थानि स्वपक्षे पञ्च ला कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । त्रिभिस्त्रिभिरविज्ञातैवेत्सि तीर्थानि चारकैः ॥ ३७॥ दशतीर्थानि च । अविज्ञातैः परस्परमन्यैश्चाविज्ञातैः। विज्ञातत्वे तेषां साङ्केतिकव्यवहारः प्रादुष्यात् । एकस्मिन् तीर्थे विभित्रिभिः चारकैः वेषान्तर धारिभिश्चारैः। कृत्रिमाणे कप्रत्ययः। वेत्सि कच्चित, एतानि न्यायतोऽन्यायतो वा प्रवर्तन्त इति जानासि कच्चिदित्यर्थः । तानीमानि अष्टादश। नीतिशास्त्रोक्तानि तीर्थानि-मन्त्रिपुरोहितयुवराजसेनापतिदोवारिकान्तर्वशिककारागाराधिकृतार्थसञ्चयकृत्कायनियोजकपाड़िवाकसेनानायकनगराध्यक्ष कान्तिकसभ्यधर्माध्यक्षदण्डपालदुर्गपालराष्ट्रान्तपालाः । एष्वेव मन्त्रिपुरोहितयुवराजव्यतिरिक्तानि स्वपक्षे पञ्चदशतीथानि । मन्त्रिपुरोहितयुवराज सेनापतयः प्रसिद्धाः । दौवारिक: अन्तःपुरादिद्वाररक्षणाधिकृतजननिर्वाहकः । अन्तर्वशिकः अन्तःपुरकार्यनिर्वाहकः । कारागारम् अपराधिना | बन्धनगृहम्, तत्राधिकृतः कारागाराधिकृतः । अर्थसञ्चयकृत् धनाध्यक्षः। कार्यनियोजकः राजाज्ञाया बहिः प्रचारकर्ता । प्राझिवाका व्यवहारप्रष्ट तल्लक्षणमुक्तम्-“विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च । प्रियपूर्व प्राग्वदति प्राडिवाकस्ततः स्मृतः॥” इति । सेनानायकः सेनायाः भृतिजीवनादि पादानाध्यक्षः। नगराध्यक्षः रात्रौ नगरशोधननगरद्वारप्राकारादिरक्षणसंविधानादिकर्ता कान्तिकः कार्यान्ते वेतनग्राहिणां सैनिकव्यतिरिक्तानां सर्वपाल राज्ञस्सकाशात् एकधा स्वयं वेतनं गृहीत्वा प्रत्येकं तद्यो दापयति सः । सभ्यः प्रतिदिनं सभालङ्करणराजमन्त्रिप्रभृतिसमुचितासनविधानसभ्या। अन्येषु परपक्षेषु मन्त्रादीन्यष्टादशतीर्थानि स्वपक्षे पञ्चदशतीर्थानि च परस्परमविज्ञातैरन्योन्यमविज्ञातैखिभित्रिभिश्चारकैर्वेषान्तरधारिभिः चारैवेत्सि कञ्चिदिति सम्बन्धः । “चारान्विचारयेत्तीर्थेष्वात्मनश्च परस्य च । पाषण्डादीनविज्ञातानन्योन्यमितरेष्वपि ॥ मन्त्रिणं युवराजं च हित्वा स्वेषु पुरोहितम् ।" इति । Nअष्टादशतीथान्येतानि-मन्त्रिपुरोहितयुवराजसेनापतिदोवारिकान्तर्वशिककारागाराधिकृतार्थसञ्चयकृत्कृत्याकृत्यनियोजकपाड़िवाकसेनानायकनगराध्यक्षदण्डपाल २९५॥ दुर्गपालराट्रान्तपालका इति नीतिशास्त्रोक्तान्यष्टादश तीर्थानि । प्रादिवाकलक्षणम्-"विवादे पृच्छति प्रश्नं प्रतिप्रश्नं तथैव च । प्रियपूर्व प्राग्वदति प्राड़िवाकस्ततः कास्मृतः॥" इति । एतेषां तीर्थशब्दवाच्यत्वे हलायुधः “योनौ जलावतारे च मन्त्राद्यष्टादशस्वपि । पुण्यक्षेत्र तथा पाने तीर्थ स्यादर्शनेष्वपि ॥" इति ॥ ३७॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691